← Ayodhyā Kāṇḍa

Sarga 48: The Lament of the City's Women

पौराङ्गनाविलापः

paurāṅganāvilāpaḥ — word-by-word gloss for all 37 shlokas.

Page 2 of 437 shlokas in this sarga (verified max-across-sources)
Shloka 48.11Word-by-word available

काननं वाऽपि शैलं वा यं रामोऽभिगमिष्यति । प्रियातिथिमिव प्राप्तं नैनं शक्ष्यन्त्यनर्चितुम् ।।2.48.11।।

Meaning

Shloka 48.12Word-by-word available

विचित्रकुसुमापीडाः बहुमञ्जरिधारिणः । राघवं दर्शयिष्यन्ति नगा भ्रमरशालिनः ।।2.48.12।।

Meaning

Shloka 48.13Word-by-word available

अकाले चाऽपि मुख्यानि पुष्पाणि च फलानि च । दर्शयिष्यन्त्यनुक्रोशाद्गिरयो राममागतम् ।।2.48.13।।

Meaning

Shloka 48.14Word-by-word available

प्रस्रविष्यन्ति तोयानि विमलानि महीधराः । विदर्शयन्तः विविधान्भूयश्चित्रांश्च निर्झरान् ।।2.48.14।।

Meaning

Shloka 48.15Word-by-word available

पादपाः पर्वताग्रेषु रमयिष्यन्ति राघवम् । यत्र रामो भयं नात्र नास्ति तत्र पराभवः ।।2.48.15।।

Meaning

Shloka 48.16Word-by-word available

स हि शूरो महाबाहुः पुत्रो दशरथस्य च । पुरा भवति नो दूरादनुगच्छाम राघवम् ।।2.48.16।।

Meaning

Shloka 48.17Word-by-word available

पादच्छाया सुखा भर्तुस्तादृस्य महात्मनः । स हि नाथो जनस्यास्य स गतिः स परायणम् ।।2.48.17।।

Meaning

Shloka 48.18Word-by-word available

वयं परिचरिष्यामः सीतां यूयं तु राघवम् । इति पौरस्त्रियो भर्तृन्दुःखार्तास्तत्तदब्रुवन् ।।2.48.18।।

Meaning

Shloka 48.19Word-by-word available

युष्माकं राघवोऽरण्ये योगक्षेमं विधास्यति । सीता नारीजनस्यास्य योगक्षेमं करिष्यति ।।2.48.19।।

Meaning

Shloka 48.20Word-by-word available

को न्वनेनाप्रतीतेन सोत्कण्ठितजनेन च । सम्प्रीयेतामनोज्ञेन वासेन हृतचेतसा ।।2.48.20।।

Meaning