Sarga 48: The Lament of the City's Women
पौराङ्गनाविलापः
paurāṅganāvilāpaḥ — word-by-word gloss for all 37 shlokas.
Jump to a shloka · 37 in this sarga
कैकेय्या यदि चेद्राज्यं स्यादधर्म्यमनाथवत् । न हि नो जीवितेनार्थः कुतः पुत्रैः कुतो धनैः ।।2.48.21।।
Meaning
यया पुत्रश्च भर्ता च त्यक्तावैश्वर्यकारणात् । कं सा परिहरेदन्यं कैकेयी कुलपांसनी ।।2.48.22।।
Meaning
कैकेय्या न वयं राज्ये भृतका निवसेमहि । जीवन्त्या जातु जीवन्त्यः पुत्रैरपि शपामहे ।।2.48.23।।
Meaning
या पुत्रं पार्थिवेन्द्रस्य प्रवासयति निर्घृणा । कस्तां प्राप्य सुखं जीवेदधर्म्यां दुष्टचारिणीम् ।।2.48.24।।
Meaning
उपद्रुतमिदं सर्वमनालम्बमनायकम् । कैकेय्या हि कृते सर्वं विनाशमुपयास्यति ।।2.48.25।।
Meaning
न हि प्रव्रजिते रामे जीविष्यति महीपतिः । मृते दशरथे व्यक्तं विलोपस्तदनन्तरम् ।।2.48.26।।
Meaning
ते विषं पिबतालोद्य क्षीणपुण्याः सुदुर्गताः । राघवं वाऽनुगच्छध्वमश्रुतिं वाऽपि गच्छत ।।2.48.27।।
Meaning
मिथ्या प्रव्राजितः रामः सभार्यः सहलक्ष्मणः । भरते सन्निसृष्टाः स्मः सौनिके पशवो यथा ।।2.48.28।।
Meaning
पूर्णचन्द्राननः श्यामो गूढजत्रुररिन्दमः । आजानुबाहुः पद्माक्षो रामो लक्ष्मणपूर्वजः ।।2.48.29।।
Meaning
पूर्वाभिभाषी मधुरः सत्यवादी महाबलः । सौम्यश्च सर्वलोकस्य चन्द्रवत्प्रियदर्शनः ।।2.48.30।।
Meaning