Sarga 48: The Lament of the City's Women
पौराङ्गनाविलापः
paurāṅganāvilāpaḥ — word-by-word gloss for all 37 shlokas.
Jump to a shloka · 37 in this sarga
नूनं पुरुषशार्दूलो मत्तमातङ्गविक्रमः । शोभयुश्यत्यरण्यानि विचरन्स महारथः ।।2.48.31।।
Meaning
तास्तथा विलपन्त्यस्तु नगरे नागरस्त्रियः । चुक्रुशुर्दुःखसन्तप्ता मृत्योरिव भयागमे ।।2.48.32।।
Meaning
इत्येवं विलपन्तीनां स्त्रीणां वेश्मसु राघवम् । जगामास्तं दिनकरो रजनी चाभ्यवर्तत ।।2.48.33।।
Meaning
नष्टज्वलनसम्पाता प्रशान्ताध्यायसत्कथा । तिमिरेणाभिलिप्तेव सा तदा नगरी बभौ ।।2.48.34।।
Meaning
उपशान्तवणिक्पण्या नष्टहर्षा निराश्रया । अयोध्या नगरी चासीन्नष्टतारमिवाम्बरम् ।।2.48.35।।
Meaning
तथा स्त्रियो रामनिमित्तमातुराः यथा सुते भ्रातरि वा विवासिते । विलप्य दीना रुरुदुर्विचेतसः सुतैर्हि तासामधिको हि सोऽभवत् ।।2.48.36।।
Meaning
प्रशान्तगीतोत्सवनृत्तवादना व्यपास्तहर्षा पिहितापणोदया । तदा ह्ययोध्या नगरी बभूव सा महार्णवः सङ्क्षपितोदको यथा ।।2.48.37।।
Meaning