Sarga 3: Counsel to the Son
पुत्रानुशासनम्
putrānuśāsanam — word-by-word gloss for all 49 shlokas.
Jump to a shloka · 49 in this sarga
शतं च शातकुम्भानां कुम्भानामग्निवर्चसाम्। हिरण्यशृङ्गमृषभं समग्रं व्याघ्रचर्म च ।।2.3.11।।
Meaning
उपस्थापयत प्रातरग्न्यगारं महीपतेः। यच्चान्यत्किञ्चिदेष्टव्यं तत्सर्वमुपकल्प्यताम् ।।2.3.12।।
Meaning
अन्तःपुरस्य द्वाराणि सर्वस्य नगरस्य च। चन्दनस्रग्भिरर्च्यन्तां धूपैश्च घ्राणहारिभिः ।।2.3.13।।
Meaning
प्रशस्तमन्नं गुणवद्दधिक्षीरोपसेचनम्। द्विजानां शतसाहस्रे यत्प्रकाममलं भवेत् ।।2.3.14।।
Meaning
सत्कृत्य द्विजमुख्यानां श्वः प्रभाते प्रदीयताम्। घृतं दधि च लाजाश्च दक्षिणाश्चापि पुष्कलाः ।।2.3.15।।
Meaning
सूर्येऽभ्युदितमात्रे श्वो भविता स्वस्तिवाचनम्। ब्राह्मणाश्च निमन्त्र्यन्तां कल्प्यन्तामासनानि च ।।2.3.16।।
Meaning
आबध्यन्तां पताकाश्च राजमार्गश्च सिच्यताम्। सर्वे च तालावचरा गणिकाश्च स्वलंकृताः ।।2.3.17।।
Meaning
कक्ष्यां द्वितीयामासाद्य तिष्ठन्तु नृपवेश्मनः। देवायतनचैत्येषु सान्नभक्षाः सदक्षिणाः ।।2.3.18।।
Meaning
उपस्थापयितव्याः स्युर्माल्ययोग्याः पृथक् पृथक्। दीर्घासिबद्धा योधाश्च सन्नद्धा मृष्टवाससाः ।।2.3.19।।
Meaning
महाराजाङ्गणं सर्वे प्रविशन्तु महोदयम्। एवं व्यादिश्य विप्रौ तौ क्रियास्तत्र सुनिष्ठितौ ।।2.3.20।।
Meaning