Sarga 3: Counsel to the Son
पुत्रानुशासनम्
putrānuśāsanam — word-by-word gloss for all 49 shlokas.
Jump to a shloka · 49 in this sarga
चक्रतुश्चैव यच्छेषं पार्थिवाय निवेद्य च। कृतमित्येव चाब्रूतामभिगम्य जगत्पतिम् ।।2.3.21।।
Meaning
यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजर्षभौ। ततः सुमन्त्रं द्युतिमान्राजा वचनमब्रवीत् ।।2.3.22।।
Meaning
रामः कृतात्मा भवता शीघ्रमानीयतामिति। स तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात् ।।2.3.23।।
Meaning
रामं तत्रानयाञ्चक्रे रथेन रथिनां वरम्। अथ तत्र समासीनास्तदा दशरथं नृपम् ।।2.3.24।।
Meaning
प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः। म्लेच्छाश्चार्याश्च ये चान्ये वनशैलान्तवासिनः ।।2.3.25।।
Meaning
उपासाञ्चक्रिरे सर्वे तं देवा इव वासवम्। तेषां मध्ये स राजर्षिर्मरुतामिव वासवः ।।2.3.26।।
Meaning
प्रासादस्थो रथगतं ददर्शायान्तमात्मजम्। गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम् ।।2.3.27।।
Meaning
दीर्घबाहुं महासत्त्वं मत्तमातङ्गगामिनम्। चन्द्रकान्ताननं राममतीव प्रियदर्शनम् ।।2.3.28।।
Meaning
रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम्। घर्माभितप्ताः पर्जन्यं ह्लादयन्तमिव प्रजाः ।।2.3.29।।
Meaning
न ततर्प समायान्तं पश्यमानो नराधिपः। अवतार्य सुमन्त्रस्तं राघवं स्यन्दनोत्तमात् ।।2.3.30।।
Meaning