← Ayodhyā Kāṇḍa

Sarga 3: Counsel to the Son

पुत्रानुशासनम्

putrānuśāsanam — word-by-word gloss for all 49 shlokas.

Page 4 of 549 shlokas in this sarga (verified max-across-sources)
Shloka 3.31Word-by-word available

पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतोऽन्वगात्। स तं कैलासशृङ्गाभं प्रासादं नरपुङ्गवः ।।2.3.31।।

Meaning

Shloka 3.32Word-by-word available

आरुरोह नृपं द्रष्टुं सह सूतेन राघवः। स प्राञ्जलिरभिप्रेत्य प्रणतः पितुरन्तिके ।।2.3.32।।

Meaning

Shloka 3.33Word-by-word available

नाम स्वं श्रावयन्रामो ववन्दे चरणौ पितुः। तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपः ।।2.3.33।।

Meaning

Shloka 3.34Word-by-word available

गृह्याञ्जलौ समाकृष्य सस्वजे प्रियमात्मजम्। तस्मै चाभ्युदितं सम्यंमणिकाञ्चनभूषितम् ।।2.3.34।।

Meaning

Shloka 3.35Word-by-word available

दिदेश राजा रुचिरं रामाय परमासनम्। तदासनवरं प्राप्य व्यदीपयत राघवः ।।2.3.35।।

Meaning

Shloka 3.36Word-by-word available

स्वयैव प्रभया मेरुमुदये विमलो रविः। तेन विभ्राजता तत्र सा सभाऽभिव्यरोचत ।।2.3.36।।

Meaning

Shloka 3.37Word-by-word available

विमलग्रहनक्षत्रा शारदी द्यौरिवेन्दुना। तं पश्यमानो नृपतिस्तुतोष प्रियमात्मजम् ।।2.3.37।।

Meaning

Shloka 3.38Word-by-word available

अलंकृतमिवात्मानमादर्शतलसंस्थितम्। स तं सस्मितमाभाष्य पुत्रं पुत्रवतां वरः ।।2.3.38।।

Meaning

Shloka 3.39Word-by-word available

उवाचेदं वचो राजा देवेन्द्रमिव कश्यपः। ज्येष्ठायामसि मे पत्न्यां सदृश्यां सदृशः सुतः ।।2.3.39।।

Meaning

Shloka 3.40Word-by-word available

उत्पन्नस्त्वं गुणश्रेष्ठो मम रामात्मजः प्रियः। त्वया यतः प्रजाश्चेमाः स्वगुणैरनुरञ्जिताः ।।2.3.40।।

Meaning