Sarga 3: Counsel to the Son
पुत्रानुशासनम्
putrānuśāsanam — word-by-word gloss for all 49 shlokas.
Jump to a shloka · 49 in this sarga
तस्मात्त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि। कामतस्त्वं प्रकृत्यैव विनीतो गुणवानसि ।।2.3.41।।
Meaning
गुणवत्यपि तु स्नेहात्पुत्र वक्ष्यामि ते हितम्। भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः ।।2.3.42।।
Meaning
कामक्रोधसमुत्थानि त्यजेथा व्यसनानि च। परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथा ।।2.3.43।।
Meaning
अमात्यप्रभृतीः सर्वाः प्रकृतीश्चानुरञ्जय। कोष्ठागारायुधागारैः कृत्वा सन्निचयान्बहून् ।।2.3.44।।
Meaning
तुष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम्। तस्य नन्दन्ति मित्राणि लब्ध्वाऽमृतमिवामराः ।।2.3.45।।
Meaning
तस्मात्पुत्र त्वमात्मानं नियम्यैवं समाचर। तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रियकारिणः ।।2.3.46।।
Meaning
त्वरिताः शीघ्रमभ्येत्य कौसल्यायै न्यवेदयन्। सा हिरण्यं च गाश्चैव रत्नानि विविधानि च ।।2.3.47।।
Meaning
व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा। अथाऽभिवाद्य राजानं रथमारुह्य राघवः। ययौ स्वं द्युतिमद्वेश्म जनौघैः प्रतिपूजितः ।।2.3.48।।
Meaning
ते चापि पौरा नृपतेर्वचस्तच्छ्रुत्वा तदा लाभमिवेष्टमाशु। नरेन्द्रमामन्त्र्य गृहाणि गत्वा देवान्समानर्चुरभिप्रहृष्टाः ।।2.3.49।।
Meaning