← Ayodhyā Kāṇḍa
Sarga 81: The Assembly Hall
सभास्थानम्
sabhāsthānam — word-by-word gloss for all 16 shlokas.
Jump to a shloka · 16 in this sarga
Page 2 of 216 shlokas in this sarga (verified max-across-sources)
Shloka 81.11Word-by-word available
स काञ्चनमयं पीठं सुखास्तरणसंवृतम् । अध्यास्त सर्ववेदज्ञो दूताननुशशास च ।।2.81.11।।
Meaning
Shloka 81.12Word-by-word available
ब्राह्मणान् क्षत्रियान् वैश्यान् अमात्यान् गणवल्लभान् । क्षिप्रमानयताव्यग्राः कृत्यमात्ययिकं हि नः ।।2.81.12।।
Meaning
Shloka 81.13Word-by-word available
सराजभृत्यं शत्रुघ्नं भरतं च यशस्विनम् । युधाजितं सुमन्त्रं च ये च तत्र हिता जनाः ।।2.81.13।।
Meaning
Shloka 81.14Word-by-word available
ततः हलहलाशब्दो महान्समुदपद्यत । रथैरश्वैः गजैश्चापि जनानामुपगच्छताम् ।।2.81.14।।
Meaning
Shloka 81.15Word-by-word available
ततः भरतमायान्तं शतक्रतुमिवामराः । प्रत्यनन्दन् प्रकृतयो यथा दशरथं तथा ।।2.81.15।।
Meaning
Shloka 81.16Word-by-word available
ह्रदैव तिमिनागसंवृतः स्तिमितजलो मणिशङ्खशर्करः । दशरथसुतशोभिता सभा सदशरथेव बभौ यथा पुरा ।।2.81.16।।
Meaning