← Ayodhyā Kāṇḍa

Sarga 88: Looking at the Bed

शय्यानुवीक्षणम्

śayyānuvīkṣaṇam — word-by-word gloss for all 30 shlokas.

Jump to a shloka · 30 in this sarga

Page 2 of 330 shlokas in this sarga (verified max-across-sources)
Shloka 88.11Word-by-word available

न नूनं दैवतं किञ्चित् कालेन बलवत्तरम् । यत्र दाशरथी रामो भूमावेव शयीत सः ।।2.88.11।।

Meaning

Shloka 88.12Word-by-word available

विदेहराजस्य सुता सीता च प्रियदर्शना । दयिता शयिता भूमौ स्नुषा दशरथस्य च ।।2.88.12।।

Meaning

Shloka 88.13Word-by-word available

इयं शय्या मम भ्रातुरिदं हि परिवर्तितम् । स्थण्डिले कठिने सर्वं गात्रैर्विमृदितं तृणम् ।।2.88.13।।

Meaning

Shloka 88.14Word-by-word available

मन्ये साभरणा सुप्ता सीतास्मिन् शयनोत्तमे । तत्र तत्र हि दृश्यन्ते सक्ताः कनकबिन्दवः ।।2.88.14।।

Meaning

Shloka 88.15Word-by-word available

उत्तरीयमिहासक्तं सुव्यक्तं सीतया तदा । तथा ह्येते प्रकाशन्ते सक्ताः कौशेयतन्तवः ।।2.88.15।।

Meaning

Shloka 88.16Word-by-word available

मन्ये भर्तुः सुखा शय्या येन बाला तपस्विनी । सुकुमारी सती दुःखं न विजानाति मैथिली ।।2.88.16।।

Meaning

Shloka 88.17Word-by-word available

हा हन्तास्मि नृशंसोऽहं यत्सभार्यः कृतेमम । ईदृशीं राघवः शय्यामधिशेते ह्यनाथवत् ।।2.88.17।।

Meaning

Shloka 88.18Word-by-word available

सार्वभौमकुले जातः सर्वलोकस्य सम्मतः । सर्वलोकप्रियस्त्यक्त्वा राज्यं सुखमनुत्तमम् ।।2.88.18।।

Meaning

Shloka 88.19Word-by-word available

कथमिन्दीवरश्यामो रक्ताक्षः प्रियदर्शनः । सुखभागी च दुःखार्हः शयितो भुवि राघवः ।।2.88.19।।

Meaning

Shloka 88.20Word-by-word available

धन्यः खलु महाभागो लक्ष्मणः शुभलक्षणः । भ्रातरं विषमे काले यो राममनुवर्तते ।।2.88.20।।

Meaning