Sarga 88: Looking at the Bed
शय्यानुवीक्षणम्
śayyānuvīkṣaṇam — word-by-word gloss for all 30 shlokas.
Jump to a shloka · 30 in this sarga
सिद्धार्था खलु वैदेही पतिं यानुगता वनम् । वयं संशयिताः सर्वे हीनास्तेन महात्मना ।।2.88.21।।
Meaning
अकर्णधारा पृथिवी शून्येव प्रतिभाति मा । गते दशरथे स्वर्गं रामे चारण्यमाश्रिते ।।2.88.22।।
Meaning
न च प्रार्थयते कच्चित् मनसापि वसुन्धराम् । वनेऽपि वसतस्तस्य बाहुवीर्याभिरक्षिताम् ।।2.88.23।।
Meaning
शून्यसंवरणा रक्षामयन्त्रितहयद्विपाम् । अपावृतपुरद्वारां राजधानीमरक्षिताम् ।।2.88.24।।
Meaning
अप्रहृष्टबलां शून्यां विषमस्थामनावृताम् । शत्रवो नाभिमन्यन्ते भक्ष्यान्विषकृतानिव ।।2.88.25।।
Meaning
अद्य प्रभृति भूमौ तु शयिष्येऽहं तृणेषु वा । फलमूलाशनो नित्यं जटाचीराणि धारयन् ।।2.88.26।।
Meaning
तस्यार्थमुत्तरं कालं निवत्स्यामि सुखं वने । तं प्रतिश्रवमामुच्य नास्य मिथ्या भविष्यति ।।2.88.27।।
Meaning
वसन्तं भ्रातुरर्थाय शत्रुघ्नो मानुवत्स्यति । लक्ष्मणेन सहत्वार्यो अयोध्यां पालयिष्यति ।।2.88.28।।
Meaning
अभिषेक्ष्यन्ति काकुत्स्थमयोध्यायां द्विजातयः । अपि मे देवताः कुर्युरिमं सत्यं मनोरथम् ।।2.88.29।।
Meaning
प्रसाद्यमानः शिरसा मया स्वयम् बहुप्रकारं यदि नभिपत्स्यते । ततोऽनुवत्स्यामि चिराय राघवम् वनेचरन्नार्हति मामुपेक्षितुम् ।।2.88.30।।
Meaning