Sarga 4: A Mother's Blessing
मात्राशीःपरिग्रहः
mātrāśīḥparigrahaḥ — word-by-word gloss for all 45 shlokas.
Jump to a shloka · 45 in this sarga
प्रणमन्तं समुत्थाप्य तं परिष्वज्य भूमिपः। प्रदिश्य चास्मै रुचिरमासनं पुनरब्रवीत् ।।2.4.11।।
Meaning
राम वृद्धोऽस्मि दीर्घायुर्भुक्ता भोगा मयेप्सिताः। अन्नवद्भिः क्रतुशतैस्तथेष्टं भूरिदक्षिणैः ।।2.4.12।।
Meaning
जातमिष्टमपत्यं मे त्वमद्यानुपमं भुवि। दत्तमिष्टमधीतं च मया पुरुषसत्तम ।।2.4.13।।
Meaning
अनुभूतानि चेष्टानि मया वीरसुखान्यपि। देवर्षिपितृविप्राणामनृणोऽस्मि तथाऽत्मनः ।।2.4.14।।
Meaning
न किञ्चिन्मम कर्तव्यं तवान्यत्राभिषेचनात्। अतो यत्त्वामहं ब्रूयां तन्मे त्वं कर्तुमर्हसि ।।2.4.15।।
Meaning
अद्य प्रकृतयः सर्वास्त्वामिच्छन्ति नराधिपम्। अतस्त्वां युवराजानमभिषेक्ष्यामि पुत्रक ।।2.4.16।।
Meaning
अपि चाद्याशुभान्राम स्वप्ने पश्यामि दारुणान्। सनिर्घाता महोल्काश्च पतिता हि महास्वनाः ।।2.4.17।।
Meaning
अवष्टब्धं च मे राम नक्षत्रं दारुणैर्ग्रहैः। आवेदयन्ति दैवज्ञाः सूर्याङ्गारकराहुभिः ।।2.4.18।।
Meaning
प्रायेण हि निमित्तानामीदृशानां समुद्भवे। राजा हि मृत्युमवाप्नोति घोरां वाऽपदमृच्छति ।।2.4.19।।
Meaning
तद्यावदेव मे चेतो न विमुञ्चति राघव। तावदेवाभिषिञ्चस्व चला हि प्राणिनां मतिः ।।2.4.20।।
Meaning