Sarga 4: A Mother's Blessing
मात्राशीःपरिग्रहः
mātrāśīḥparigrahaḥ — word-by-word gloss for all 45 shlokas.
Jump to a shloka · 45 in this sarga
अद्य चन्द्रोऽभ्युपगतः पुष्यात्पूर्वं पुनर्वसू। श्वः पुष्ययोगं नियतं वक्ष्यन्ते दैवचिन्तकाः ।।2.4.21।।
Meaning
ततः पुष्येऽभिषिञ्चस्व मनस्त्वरयतीव माम्। श्वस्त्वाऽहमभिषेक्ष्यामि यौवराज्ये परन्तप ।।2.4.22।।
Meaning
तस्मात्त्वयाऽद्यप्रभृति निशेयं नियतात्मना। सह वध्वोपवस्तव्या दर्भप्रस्तरशायिना ।।2.4.23।।
Meaning
सुहृदश्चाप्रमत्तास्त्वां रक्षन्त्वद्य समन्ततः। भवन्ति बहुविघ्नानि कार्याण्येवंविधानि हि ।।2.4.24।।
Meaning
विप्रोषितश्च भरतो यावदेव पुरादितः। तावदेवाभिषेकस्ते प्राप्तकालो मतो मम ।।2.4.25।।
Meaning
कामं खलु सतां वृत्ते भ्राता ते भरतः स्थितः। ज्येष्ठानुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः ।।2.4.26।।
Meaning
किं तु चित्तं मनुष्याणामनित्यमिति मे मतिः। सतां च धर्मनित्यानां कृतशोभि च राघव ।।2.4.27।।
Meaning
इत्युक्तः सोऽभ्यनुज्ञातः श्वोभाविन्यभिषेचने। व्रजेति रामः पितरमभिवाद्याभ्ययाद्गृहम् ।।2.4.28।।
Meaning
प्रविश्य चात्मनो वेश्म राज्ञोद्दिष्टेऽभिषेचने। तत्क्षणेन च निष्क्रम्य मातुरन्तःपुरं ययौ ।।2.4.29।।
Meaning
तत्र तां प्रवणामेव मातरं क्षौमवासिनीम्। वाग्यतां देवतागारे ददर्शायाचतीं श्रियम् ।।2.4.30।।
Meaning