Sarga 6: The City Rejoices
पौरोत्सेकः
paurotsekaḥ — word-by-word gloss for all 28 shlokas.
Jump to a shloka · 28 in this sarga
सिताभ्रशिखराभेषु देवतायतनेषु च। चतुष्पथेषु रथ्यासु चैत्येष्वट्टालकेषु च ।।2.6.11।।
Meaning
नानापण्यसमृद्धेषु वणिजामापणेषु च। कुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु च ।।2.6.12।।
Meaning
सभासु चैव सर्वासु वृक्षेष्वालक्षितेषु च। ध्वजाः समुच्छ्रिताश्चित्राः पताकाश्चाभवंस्तदा ।।2.6.13।।
Meaning
नटनर्तकसङ्घानां गायकानां च गायताम्। मनःकर्णसुखा वाचः शुश्रुवुश्च ततस्ततः ।।2.6.14।।
Meaning
रामाभिषेकयुक्ताश्च कथाश्चक्रुर्मिथो जनाः। रामाभिषेके सम्प्राप्ते चत्वरेषु गृहेषु च ।।2.6.15।।
Meaning
बाला अपि क्रीडमानाः गृहद्वारेषु सङ्घशः। रामाभिषेकसम्युक्ताश्चक्रुरेव मिथः कथाः ।।2.6.16।।
Meaning
कृतपुष्पोपहारश्च धूपगन्धाधिवासितः। राजमार्गः कृतः श्रीमान्पौरै रामाभिषेचने ।।2.6.17।।
Meaning
प्रकाशीकरणार्थं च निशागमनशङ्कया। दीपवृक्षांस्तथा चक्रुरनुरथ्यासु सर्वशः ।।2.6.18।।
Meaning
अलङ्कारं पुरस्यैवं कृत्वा तत्पुरवासिनः। आकाङ्क्षमाणा रामस्य यौवराज्याभिषेचनम् ।।2.6.19।।
Meaning
समेत्य सङ्घशः सर्वे चत्वरेषु सभासु च। कथयन्तो मिथस्तत्र प्रशशंसुर्जनाधिपम् ।।2.6.20।।
Meaning