← Ayodhyā Kāṇḍa

Sarga 6: The City Rejoices

पौरोत्सेकः

paurotsekaḥ — word-by-word gloss for all 28 shlokas.

Jump to a shloka · 28 in this sarga

Page 3 of 328 shlokas in this sarga (verified max-across-sources)
Shloka 6.21Word-by-word available

अहो महात्मा राजायमिक्ष्वाकुकुलनन्दनः। ज्ञात्वा यो वृद्धमात्मानं रामं राज्येऽभिषेक्ष्यति ।।2.6.21।।

Meaning

Shloka 6.22Word-by-word available

सर्वे ह्यनुगृहीताः स्म यन्नो रामो महीपतिः। चिराय भविता गोप्ता दृष्टलोकपरावरः ।।2.6.22।।

Meaning

Shloka 6.23Word-by-word available

अनुद्धतमना विद्वान्धर्मात्मा भ्रातृवत्सलः। यथा च भ्रातृषु स्निग्धस्तथास्मास्वपि राघवः ।।2.6.23।।

Meaning

Shloka 6.24Word-by-word available

चिरं जीवतु धर्मात्मा राजा दशरथोऽनघः। यत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे वयम् ।।2.6.24।।

Meaning

Shloka 6.25Word-by-word available

एवंविधं कथयतां पौराणां शुश्रुवुस्तदा। दिग्भ्यो विश्रुतवृत्तान्ताः प्राप्ता जानपदा जनाः ।।2.6.25।।

Meaning

Shloka 6.26Word-by-word available

ते तु दिग्भ्यः पुरीं प्राप्ताः द्रष्टुं रामाभिषेचनम्। रामस्य पूरयामासुः पुरीं जानपदा जनाः ।।2.6.26।।

Meaning

Shloka 6.27Word-by-word available

जनौघैस्तैर्विसर्पद्भिः शुश्रुवे तत्र निस्वनः। पर्वसूदीर्णवेगस्य सागरस्येव निस्वनः ।।2.6.27।।

Meaning

Shloka 6.28Word-by-word available

ततस्तदिन्द्रक्षयसन्निभं पुरं दिदृक्षुभिर्जानपदैरुपागतैः। समन्ततः सस्वनमाकुलं बभौ समुद्रयादोभिरिवार्णवोदकम् ।।2.6.28।।

Meaning