Sarga 46: The Citizens Beguiled
पौरमोहनम्
pauramohanam — word-by-word gloss for all 34 shlokas.
Jump to a shloka · 34 in this sarga
एवमुक्त्वा तु सौमित्रं सुमन्त्रमपि राघवः । अप्रमत्तस्त्वमश्वेषु भव सौम्येत्युवाच ह ।।2.46.11।।
Meaning
सोऽश्वान्सुमन्त्रः सम्यम्य सूर्येऽस्तं समुपागते । प्रभूतयवसान्कृत्वा बभूव प्रत्यनन्तरः ।।2.46.12।।
Meaning
उपास्य तु शिवां सन्ध्यां दृष्ट्वा रात्रिमुपस्थिताम् । रामस्य शयनं चक्रे सूतः सौमित्रिणा सह ।।2.46.13।।
Meaning
तां शय्यां तमसातीरे वीक्ष्य वृक्षदलैः कृताम् । रामः सौमित्रिणा सार्धं सभार्यः संविवेश ह ।।2.46.14।।
Meaning
सभार्यं सम्प्रसुप्तं तं भ्रातरं वीक्ष्य लक्ष्मणः । कथयामास सूताय रामस्य विविधान्गुणान् ।।2.46.15।।
Meaning
जाग्रतः ह्येव तां रात्रिं सौमित्रेरुदितः रविः । सूतस्य तमसातीरे रामस्य ब्रुवतः गुणान् ।।2.46.16।।
Meaning
गोकुलाकुलतीरायास्तमसाया विदूरतः । अवसत्तत्र तां रात्रिं रामः प्रकृतिभिः सह ।।2.46.17।।
Meaning
उत्थाय तु महातेजाः प्रकृतीस्ता निशाम्य च । अब्रवीद्भ्रातरं रामः लक्ष्मणं पुण्यलक्षणम् ।।2.46.18।।
Meaning
अस्मद्व्यपेक्षान्सौमित्रे निरपेक्षान्गृहेष्वपि । वृक्षमूलेषु संसुप्तान्पश्य लक्ष्मण साम्प्रतम् ।।2.46.19।।
Meaning
यथैते नियमं पौराः कुर्वन्त्यस्मन्निवर्तने । अपि प्राणान्न्यसिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम् ।।2.46.20।।
Meaning