Sarga 46: The Citizens Beguiled
पौरमोहनम्
pauramohanam — word-by-word gloss for all 34 shlokas.
Jump to a shloka · 34 in this sarga
यावदेव तु संसुप्तास्तावदेव वयं लघु । रथमारुह्य गच्छाम पन्थानमकुतोभयम् ।।2.46.21।।
Meaning
अतः भूयोऽपि नेदानीमिक्ष्वाकुपुरवासिनः । स्वपेयुरनुरक्ता मां वृक्षमूलानि संश्रिताः ।।2.46.22।।
Meaning
पौरा ह्यात्मकृताद्दुःखाद्विप्रमोक्ष्या नृपात्मजैः । न ते खल्वात्मना योज्या दुःखेन पुरवासिनः ।।2.46.23।।
Meaning
अब्रवील्लक्ष्मणो रामं साक्षाद्धर्ममिवस्थितम् । रोचते मे तथा प्राज्ञ क्षिप्रमारुह्यतामिति ।।2.46.24।।
Meaning
अथ रामोऽब्रवीच्छ्रीमान्सुमन्त्रं युज्यतां रथः । गमिष्यामि ततोऽरण्यं गच्छ शीघ्रमितः प्रभो ।।2.46.25।।
Meaning
सूतस्ततः सन्त्वरितः स्यन्दनं तैर्हयोत्तमैः । योजयित्वाऽथ रामाय प्राञ्जलिः प्रत्यवेदयत् ।।2.46.26।।
Meaning
अयं युक्तो महाबाहो रथस्ते रथिनांवर । तमारोह सुभद्रं ते ससीतः सहलक्ष्मणः ।।2.46.27।।
Meaning
तं स्यन्दनमधिष्ठाय राघवः सपरिच्छदः । शीघ्रगामाकुलावर्तां तमसामतरन्नदीम् ।।2.46.28।।
Meaning
स सन्तीर्य महाबाहुः श्रीमान्शिवमकण्टकम् । प्रापद्यत महामार्गमभयं भयदर्शिनाम् ।।2.46.29।।
Meaning
मोहनार्थं तु पौराणां सूतं रामोऽब्रवीद्वचः । उदङ्मुखः प्रयाहि त्वं रथमास्थाय सारथे ।।2.46.30।।
Meaning