Sarga 64: Daśaratha's Death
दशरथदिष्टान्तः
daśarathadiṣṭāntaḥ — word-by-word gloss for all 79 shlokas.
Jump to a shloka · 79 in this sarga
मुनिमव्यक्तया वाचा तमहं सज्जमानया । हीनव्यञ्जनया प्रेक्ष्य भीतो भीतैवाब्रवम् ।।2.64.11।।
Meaning
मनसः कर्म चेष्टाभिरभिसंस्तभ्य वाग्बलम् । आचचक्षे त्वहं तस्मै पुत्रव्यसनजं भयम् ।।2.64.12।।
Meaning
क्षत्रियोऽहं दशरथो नाहं पुत्रो महात्मनः । सज्जनावमतं दुःखमिदं प्राप्तं स्वकर्मजम् ।।2.64.13।।
Meaning
भगवंश्चापहस्तोऽहं सरयूतीरमागतः । जिघांसुः श्वापदं किञ्चित् निपाने चागतं गजम् ।।2.64.14।।
Meaning
तत्र श्रुतः मया शब्दो जले कुम्भस्य पूर्यतः । द्विपोऽयमिति मत्वाऽयं बाणेनाभिहतः मया ।।2.64.15।।
Meaning
गत्वा नद्यास्ततस्तीरमपश्यमिषुणा हृदि । विनिर्भिन्नं गतप्राणं शयानं भुवि तापसम् ।।2.64.16।।
Meaning
भगवन् शब्दमालक्ष्य मया गजजिघांसुना । विसृष्टोऽम्भसि नाराचस्तेन ते निहतस्सुतः ।।2.64.17।।
Meaning
ततस्तस्यैव वचनादुपेत्य परितप्यतः । स मया सहसा बाणोद्धृतो मर्मतस्तदा ।।2.64.18।।
Meaning
स चोद्धृतेन बाणेन तत्रैव स्वर्गमास्थितः । भवन्तौ पितरौ शोचन्नन्धाविति विलप्य च ।।2.64.19।।
Meaning
अज्ञानाद्भवतः पुत्रः सहसाऽभिहतः मया । शेषमेवं गते यत्स्यात् तत्प्रसीदतु मे मुनिः ।।2.64.20।।
Meaning