← Ayodhyā Kāṇḍa

Sarga 64: Daśaratha's Death

दशरथदिष्टान्तः

daśarathadiṣṭāntaḥ — word-by-word gloss for all 79 shlokas.

Page 3 of 879 shlokas in this sarga (verified max-across-sources)
Shloka 64.21Word-by-word available

स तच्छ्रुत्वा वचः क्रूरं मयोक्तमघशंसिना । नाशकत्तीव्रमायासमकर्तुं भगवानृषिः ।।2.64.21।।

Meaning

Shloka 64.22Word-by-word available

स बाष्पपूर्णवदनो निश्श्वसन् शोककर्शितः । मामुवाच महातेजाः कृताञ्जलिमुपस्थितम् ।।2.64.22।।

Meaning

Shloka 64.23Word-by-word available

यद्येतदशुभं कर्म न त्वं मे कथयेः स्वयम् । फलेन्मूर्धा स्म ते राजन् सद्यः शतसहस्रधा ।।2.64.23।।

Meaning

Shloka 64.24Word-by-word available

क्षत्रियेण वधो राजन् वानप्रस्थे विशेषतः । ज्ञानपूर्वं कृतः स्थानात् च्यावयेदपि वज्रिणम् ।।2.64.24।।

Meaning

Shloka 64.25Word-by-word available

सप्तधा तु फलेन्मूर्धा मुनौ तपसि तिष्ठति । ज्ञानाद्विसृजतः शस्त्रं तादृशे ब्रह्मवादिनि ।।2.64.25।।

Meaning

Shloka 64.26Word-by-word available

अज्ञानाद्धि कृतं यस्मात् इदं तेनैव जीवसि । अपि ह्यद्य कुलं नस्यात् इक्ष्वाकूणां कुतः भवान् ।।2.64.26।।

Meaning

Shloka 64.27Word-by-word available

नय नौ नृप तं देशमिति मां चाभ्यभाषत । अद्य तं द्रष्टुमिच्छावः पुत्रं पश्चिमदर्शनम् ।।2.64.27।।

Meaning

Shloka 64.28Word-by-word available

रुधिरेणावसिक्ताङ्गं प्रकीर्णाजिनवाससम् । शयानं भुवि निस्सञ्ज्ञं धर्मराजवशं गतम् ।।2.64.28।।

Meaning

Shloka 64.29Word-by-word available

अथाहमेकस्तं देशं नीत्वा तौ भृशदुःखितौ । अस्पर्शयमहं पुत्रं तं मुनिं सह भार्यया ।।2.64.29।।

Meaning

Shloka 64.30Word-by-word available

तौ पुत्रमात्मनः स्पृष्ट्वा तमासाद्य तपस्विनौ । निपेततुः शरीरेऽस्य पिता तस्येदमब्रवीत् ।।2.64.30।।

Meaning