← Ayodhyā Kāṇḍa

Sarga 64: Daśaratha's Death

दशरथदिष्टान्तः

daśarathadiṣṭāntaḥ — word-by-word gloss for all 79 shlokas.

Page 4 of 879 shlokas in this sarga (verified max-across-sources)
Shloka 64.31Word-by-word available

नाभिवादयसे माऽद्य न च मामभिभाषसे । किं नु शेषे तु भूमौ त्वं वत्स किं कुपितो ह्यसि ।।2.64.31।।

Meaning

Shloka 64.32Word-by-word available

न त्वहं ते प्रियं पुत्र मातरं पश्य धार्मिक । किं नु नालिङ्गसे पुत्र सुकुमार वचो वद ।।2.64.32।।

Meaning

Shloka 64.33Word-by-word available

कस्य वारात्रेऽहं श्रोष्यामि हृदयङ्गमम् । अधीयानस्य मधुरं शास्त्रं वान्यद्विशेषतः ।।2.64.33।।

Meaning

Shloka 64.34Word-by-word available

को मां सन्ध्यामुपास्यैव स्नात्वा हुतहुताशनः । श्लाघयिष्यत्युपासीनः पुत्र शोकभयार्दितम् ।।2.64.34।।

Meaning

Shloka 64.35Word-by-word available

कन्दमूलफलं हृत्वा को मां प्रियमिवातिथिम् । भोजयिष्यत्यकर्मण्यम् अप्रग्रहमनायकम् ।।2.64.35।।

Meaning

Shloka 64.36Word-by-word available

इमामन्धां च वृद्धां च मातरं ते तपस्विनीम् । कथं वत्स भरिष्यामि कृपणां पुत्र गर्धिनीम् ।।2.64.36।।

Meaning

Shloka 64.37Word-by-word available

तिष्ठ मां मागमः पुत्र यमस्य सदनं प्रति । श्वो मया सह गन्ताऽसि जनन्या च समेधितः ।।2.64.37।।

Meaning

Shloka 64.38Word-by-word available

उभावपि च शोकार्तौ अवनाथौ कृपणौ वने । क्षिप्रमेवगमिष्यावस्त्वयाऽहीनौ यमक्षयम् ।।2.64.38।।

Meaning

Shloka 64.39Word-by-word available

ततः वैवस्वतं दृष्ट्वा तं प्रवक्ष्यामि भारतीम् । क्षमतां धर्मराजो मे बिभृयात्पितरावयम् ।।2.64.39।।

Meaning

Shloka 64.40Word-by-word available

दातुमर्हति धर्मात्मा लोकपालो महायशाः । ईदृशस्य ममाक्षय्यामेकामभयदक्षिणाम् ।।2.64.40।।

Meaning