← Ayodhyā Kāṇḍa

Sarga 64: Daśaratha's Death

दशरथदिष्टान्तः

daśarathadiṣṭāntaḥ — word-by-word gloss for all 79 shlokas.

Page 5 of 879 shlokas in this sarga (verified max-across-sources)
Shloka 64.41Word-by-word available

अपापोऽसि यदा पुत्र निहतः पापकर्मणा । तेन सत्येन गच्छाशु ये लोकाः शस्त्रयोधिनाम् ।।2.64.41।।

Meaning

Shloka 64.42Word-by-word available

यान्ति शूरा गतिं यां च सङ्ग्रामेष्वनिवर्तिनः । हतास्त्वभिमुखाः पुत्र गतिं तां परमां व्रज ।।2.64.42।।

Meaning

Shloka 64.43Word-by-word available

यां गतिं सगरः शैब्यो दिलीपो जनमेजयः । नहुषो धुन्धुमारश्च प्राप्तास्तां गच्छ पुत्रक ।।2.64.43।।

Meaning

Shloka 64.44Word-by-word available

या गतिः सर्वसाधूनां स्वाध्यायात्तपसाच या । या भूमिदस्याहिताग्नेः एकपत्नीव्रतस्य च ।।2.64.44।।

Meaning

Shloka 64.45Word-by-word available

गोसहस्रप्रदातॄणां या या गुरुभृतामपि । देहन्यासकृतां या च तां गतिं गच्छ पुत्रक ।।2.64.45।।

Meaning

Shloka 64.46Word-by-word available

न हि त्वस्मिन् कुले जातः गच्छत्यकुशलां गतिम् । स तु यास्यति येन त्वं निहतो मम बान्धवः ।।2.64.46।।

Meaning

Shloka 64.47Word-by-word available

एवं स कृपणं तत्र पर्यदेवयतासकृत् । ततोऽस्मै कर्तुमुदकं प्रवृत्तः सहभार्यया ।।2.64.47।।

Meaning

Shloka 64.48Word-by-word available

स तु दिव्येन रूपेण मुनिपुत्रः स्वकर्मभिः । स्वर्गमाध्यारुहत् क्षिप्रं शक्रेण सह धर्मवित् ।।2.64.48।।

Meaning

Shloka 64.49Word-by-word available

आबभाषे च वृद्धौ तौ सह शक्रेण तापसः । आश्वास्य च मुहूर्तं तु पितरौ वाक्यमब्रवीत् ।।2.64.49।।

Meaning

Shloka 64.50Word-by-word available

स्थानमस्मि महत्प्राप्तः भवतोः परिचारणात् । भवन्तावपि च क्षिप्रं मम मूलमुपैष्यतः ।।2.64.50।।

Meaning