Sarga 64: Daśaratha's Death
दशरथदिष्टान्तः
daśarathadiṣṭāntaḥ — word-by-word gloss for all 79 shlokas.
Jump to a shloka · 79 in this sarga
एवमुक्त्वा तु दिव्येन विमानेन वपुष्मता । आरुरोह दिवं क्षिप्रं मुनिपुत्रः जितेन्द्रियः ।।2.64.51।।
Meaning
स कृत्वा तूदकं तूर्णं तापसः सह भार्यया । मामुवाच महातेजाः कृताञ्जलिमुपस्थितम् ।।2.64.52।।
Meaning
अद्यैव जहि मां राजन् मरणे नास्ति मे व्यथा । यच्छरेणैकपुत्रं मां त्वमकर्षीरपुत्रकम् ।।2.64.53।।
Meaning
त्वया तु यदविज्ञानात् निहतः मे सुतः शुचिः । तेन त्वामभिशप्स्यामि सुदुःखमतिदारुणम् ।।2.64.54।।
Meaning
पुत्रव्यसनजं दुःखं यदेतन्मम साम्प्रतम् । एवं त्वं पुत्रशोकेन राजन् कालं करिष्यसि ।।2.64.55।।
Meaning
अज्ञानात्तु हतो यस्मात् क्षत्रियेण त्वया मुनिः । तस्मात्त्वां नाविशत्याशु ब्रह्महत्या नराधिप ।।2.64.56।।
Meaning
त्वामप्येतादृशो भावः क्षिप्रमेवगमिष्यति । जीवितान्तकरो घोरो दातारमिव दक्षिणा ।।2.64.57।।
Meaning
एवं शापं मयि न्यस्य विलप्य करुणं बहु । चितामारोप्य देहं तन्मिथुनं स्वर्गमभ्ययात् ।।2.64.58।।
Meaning
तदेतच्छिन्तयानेन स्मृतं पापं मया स्वयम् । तदा बाल्यात्कृतं देवि शब्दवेध्यनुकर्षिणा ।।2.64.59।।
Meaning
तस्यायं कर्मणो देवि विपाकः समुपस्थितः । अपथ्यैः सह सम्भुक्तः व्याधिरन्नरसो यथा ।।2.64.60।।
Meaning