← Ayodhyā Kāṇḍa

Sarga 64: Daśaratha's Death

दशरथदिष्टान्तः

daśarathadiṣṭāntaḥ — word-by-word gloss for all 79 shlokas.

Page 7 of 879 shlokas in this sarga (verified max-across-sources)
Shloka 64.61Word-by-word available

तस्मान्मामागतं भद्रे तस्योदारस्य तद्वचः । यदहं पुत्रशोकेन सन्त्यक्ष्याम्यद्य जीवितम् ।।2.64.61।।

Meaning

Shloka 64.62Word-by-word available

चक्षुर्भ्यां त्वां न पश्यामि कौसल्ये साधु मा स्पृश । इत्युक्त्वा स रुदंस्त्रस्तो भार्यामाह च भूमिपः ।।2.64.62।।

Meaning

Shloka 64.63Word-by-word available

एतन्मे सदृशं देवि यन्मया राघवे कृतम् । सदृशं तत्तु तस्यैव यदनेन कृतं मयि ।।2.64.63।।

Meaning

Shloka 64.64Word-by-word available

दुर्वृत्तमपि कः पुत्रं त्यजेद्भुवि विचक्षणः । कश्च प्रव्राज्यमानो वा नासूयेत्पितरं सुतः ।।2.64.64।।

Meaning

Shloka 64.65Word-by-word available

यदि मां संस्पृशेद्रामः सकृदद्य लभेत वा । यमक्षयमनुप्राप्ता द्रक्ष्यन्ति न हि मानवाः ।।2.64.65।।

Meaning

Shloka 64.66Word-by-word available

चक्षुषा त्वां न पश्यामि स्मृतिर्मम विलुप्यते । दूता वैवस्वतस्यैते कौसल्ये त्वरयन्ति माम् ।।2.64.66।।

Meaning

Shloka 64.67Word-by-word available

अतस्तु किं दुःखतरं यदहं जीवितक्षये । न हि पश्यामि धर्मज्ञं रामं सत्यपराक्रमम् ।।2.64.67।।

Meaning

Shloka 64.68Word-by-word available

तस्यादर्शनजः शोकः सुतस्याप्रतिकर्मणः । उच्छोषयति मे प्राणान्वारि स्तोकमिवातपः ।।2.64.68।।

Meaning

Shloka 64.69Word-by-word available

न ते मनुष्या देवास्ते ये चारुशुभकुण्डलम् । मुखं द्रक्ष्यन्ति रामस्य वर्षे पञ्चदशे पुनः ।।2.64.69।।

Meaning

Shloka 64.70Word-by-word available

पद्मपत्रेक्षणं सुभ्रु सुदंष्ट्रं चारुनासिकम् । धन्या द्रक्ष्यन्ति रामस्य ताराधिपनिभं मुखम् ।।2.64.70।।

Meaning