Sarga 64: Daśaratha's Death
दशरथदिष्टान्तः
daśarathadiṣṭāntaḥ — word-by-word gloss for all 79 shlokas.
Jump to a shloka · 79 in this sarga
सदृशं शारदस्येन्दोः फुल्लस्य कमलस्य च । सुगन्धि मम नाथस्य धन्या द्रक्ष्यन्ति तन्मुखम् ।।2.64.71।।
Meaning
निवृत्तवनवासं तमयोध्यां पुनरागतम् । द्रक्ष्यन्ति सुखिनो रामं शुक्रं मार्गगतं यथा ।।2.64.72।।
Meaning
कौसल्ये चित्तमोहेन हृदयं सीदतीव मे । वेदये न च सम्युक्तान् शब्दस्पर्शरसानहम् ।।2.64.73।।
Meaning
चित्तनाशाद्विपद्यन्ते सर्वाण्येवेंद्रियाणि मे । क्षीणस्नेहस्य दीपस्य संसक्ता रश्मयो यथा ।।2.64.74।।
Meaning
अयमात्मभवः शोको मामनाथमचेतनम् । संसादयति वेगेन यथा कूलं नदीरयः ।।2.64.75।।
Meaning
हा राघव महाबाहो हा ममाऽयासनाशन । हा पितृप्रिय मे नाथ हाऽद्य क्वाऽसि गतः सुत ।।2.64.76।।
Meaning
हा कौसल्ये नशिष्यामि हा सुमित्रे तपस्विनि । हा नृशंसे ममामित्रे कैकेयि कुलपांसनि ।।2.64.77।।
Meaning
इति रामस्य मातुश्च सुमित्रायाश्च सन्निधौ । राजा दशरथः शोचन् जीवितान्तमुपागमत् ।।2.64.78।।
Meaning
यथा तु दीनं कथयन्नराधिपः प्रियस्य पुत्रस्य विवासनातुरः । गतेऽर्धरात्रे भृशदुःखपीडितः तदा जहौ प्राणमुदारदर्शनः ।।2.64.79।।
Meaning