Sarga 87: Questions about Rāma's Bed
रामशयनादिप्रश्नः
rāmaśayanādipraśnaḥ — word-by-word gloss for all 24 shlokas.
Jump to a shloka · 24 in this sarga
कच्चिन्नु लक्ष्मणे पुत्र श्रुतं ते किञ्चिदप्रियम् । पुत्रे वा ह्येकपुत्रायाः सहभार्ये वनं गते ।।2.87.11।।
Meaning
स मुहूर्तं समाश्वस्य रुदन्नेव महायशाः । कौसल्यां परिसान्त्व्येदं गुहं वचनमब्रवीत् ।।2.87.12।।
Meaning
भ्राता मे क्वावसद्रात्रौ क्व सीता क्व च लक्ष्मणः । अस्वपच्छयने कस्मिन् किं भुक्त्वा गुह शंस मे ।।2.87.13।।
Meaning
सोऽब्रवीद्भरतं हृष्टो निषादाधिपतिर्गुहः । यद्विधं प्रतिपेदे च रामे प्रियहितेऽतिथौ ।।2.87.14।।
Meaning
अन्नमुच्चावचं भक्षाः फलानि विविधानि च । रामायाभ्यवहारार्थं बहु चोपहृतं मया ।।2.87.15।।
Meaning
तत्सर्वं प्रत्यनुज्ञासीद्रामः सत्यपराक्रमः । न तु तत्प्रत्यगृह्णात्स क्षत्रधर्ममनुस्मरन् ।।2.87.16।।
Meaning
न ह्यस्माभिः प्रतिग्राह्यं सखे देयं तु सर्वदा । इति तेन वयं राजन् अनुनीता महात्मना ।।2.87.17।।
Meaning
लक्ष्मणेन समानीतं पीत्वा वारि महायशाः । औपवास्यं तदाकार्षीद्राघवः सह सीतया ।।2.87.18।।
Meaning
ततस्तु जलशेषेण लक्ष्मणोऽप्यकरोत्तदा । वाग्यतास्ते त्रयः सन्ध्यां समुपासत संहिताः ।।2.87.19।।
Meaning
सौमित्रिस्तु ततः पश्चादकरोत्स्वास्तरं शुभम् । स्वयमानीय बर्हींषि क्षिप्रं राघवकारणात् ।।2.87.20।।
Meaning