Sarga 10: Daśaratha Pleads with Kaikeyī
कैकेय्यनुनयः
kaikeyyanunayaḥ — word-by-word gloss for all 40 shlokas.
Jump to a shloka · 40 in this sarga
प्रियार्हां प्रियमाख्यातुं विवेशान्तःपुरं वशी। स कैकेय्या गृहं श्रेष्ठं प्रविवेश महायशाः ।।2.10.11।।
Meaning
पाण्डुराभ्रमिवाकाशं राहुयुक्तं निशाकरः। शुकबर्हिणसङ्घुष्टं क्रौञ्चहंसरुतायुतम् ।।2.10.12।।
Meaning
वादित्ररवसङ्घुष्टं कुब्जावामनिकायुतम्। लतागृहैश्चित्रगृहैश्चम्पकाशोकशोभितैः ।।2.10.13।।
Meaning
दान्तराजतसौवर्णवेदिकाभिः समायुतम्। नित्यपुष्पफलैर्वृक्षैर्वापीभिश्चोपशोभितम् ।।2.10.14।।
Meaning
दान्तराजतसौवर्णैः संवृतं परमासनैः। विविधैरन्नपानैश्च भक्ष्यैश्च विविधैरपि ।।2.10.15।।
Meaning
उपपन्नं महार्हैश्च भूषणैस्त्रिदिवोपमम्। तत्प्रविश्य महाराजः स्वमन्तःपुरमृद्धिमत् ।।2.10.16।।
Meaning
न ददर्श प्रियां राजा कैकेयीं शयनोत्तमे। स कामबलसम्युक्तो रत्यर्थं मनुजाधिपः ।।2.10.17।।
Meaning
अपश्यन्दयितां भार्यां पप्रच्छ विषसाद च। न हि तस्य पुरा देवी तां वेलामत्यवर्तत ।।2.10.18।।
Meaning
न च राजा गृहं शून्यं प्रविवेश कदाचन। ततो गृहगतो राजा कैकेयीं पर्यपृच्छत ।।2.10.19।।
Meaning
यथापुरमविज्ञाय स्वार्थलिप्सुमपण्डिताम्। प्रतिहारी त्वथोवाच सन्त्रस्ता रचिताञ्जलिः ।।2.10.20।।
Meaning