← Ayodhyā Kāṇḍa

Sarga 110: The Ikṣvāku Lineage Recounted

इक्ष्वाकुवंशकीर्तनम्

ikṣvākuvaṃśakīrtanam — word-by-word gloss for all 36 shlokas.

Page 3 of 436 shlokas in this sarga (verified max-across-sources)
Shloka 110.21Word-by-word available

धार्मिकश्च सुशीलश्च वंशकर्ताऽरिसूदनः । कृत्वा प्रदक्षिणं हृष्टा मुनिं तमनुमान्य च ।।2.110.21।।

Meaning

Shloka 110.22Word-by-word available

पद्मपत्रसमानाक्षं पद्मगर्भसमप्रभम् । ततः सा गृहमागम्य देवी पुत्रं व्यजायत ।।2.110.22।।

Meaning

Shloka 110.23Word-by-word available

सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया । गरेण सह तेनैव जातः स सगरोऽभवत् ।।2.110.23।।

Meaning

Shloka 110.24Word-by-word available

स राजा सगरो नाम यः समुद्रमखानयत् । इष्ट्वा पर्वणि वेगेन त्रासयन्तमिमाः प्रजाः ।।2.110.24।।

Meaning

Shloka 110.25Word-by-word available

असमञ्जस्तु पुत्रोभूत् सगरस्येति नः श्रुतम् । जीवन्नेव स पित्रा तु निरस्तः पापकर्मकृत् ।।2.110.25।।

Meaning

Shloka 110.26Word-by-word available

अंशुमानपि पुत्रोऽभूदसमञ्जस्य वीर्यवान् । दिलीपोऽंशुमतः पुत्रो दिलीपस्य भगीरथः ।।2.110.26।।

Meaning

Shloka 110.27Word-by-word available

भगीरथात् ककुत्स्थस्तु काकुत्स्था येन विश्रुताः । ककुत्स्थस्य च पुत्रोऽभूद्रघुर्येन तु राघवाः ।।2.110.27।।

Meaning

Shloka 110.28Word-by-word available

रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः । कल्माषपादः सौदासः इत्येवं प्रथितो भुवि ।।2.110.28।।

Meaning

Shloka 110.29Word-by-word available

कल्माषपादपुत्रोऽभूच्छङ्खणस्त्विति विश्रुतः । यस्तु तद्वीर्यमासाद्य सहसैन्यो व्यनीनशत् ।।2.110.29।।

Meaning

Shloka 110.30Word-by-word available

शङ्खणस्य च पुत्रोऽभूच्छूरः श्रीमान् सुदर्शनः । सुदर्शनस्याग्निवर्णाग्निवर्णस्य शीघ्रगः ।।2.110.30।।

Meaning