← Ayodhyā Kāṇḍa

Sarga 110: The Ikṣvāku Lineage Recounted

इक्ष्वाकुवंशकीर्तनम्

ikṣvākuvaṃśakīrtanam — word-by-word gloss for all 36 shlokas.

Page 4 of 436 shlokas in this sarga (verified max-across-sources)
Shloka 110.31Word-by-word available

शीघ्रगस्य मरुः पुत्रो मरोः पुत्रः प्रशुश्रुकः । प्रशुश्रुकस्य पुत्रोऽभूदम्बरीषो महाद्युतिः ।।2.110.31।।

Meaning

Shloka 110.32Word-by-word available

अम्बरीषस्य पुत्रोऽभून्नहुषः सत्यविक्रमः । नहुषस्य च नाभागः पुत्रः परमधार्मिकः ।।2.110.32।।

Meaning

Shloka 110.33Word-by-word available

अजश्च सुव्रतश्चैव नाभागस्य सुतावुभौ । अजस्य चैव धर्मात्मा राजा दशरथः सुतः ।।2.110.33।।

Meaning

Shloka 110.34Word-by-word available

तस्य ज्येष्ठोऽसि दायादो राम इत्यभिविश्रुतः । तद्गृहाण स्वकं राज्यमवेक्षस्व जनं नृप ।।2.110.34।।

Meaning

Shloka 110.35Word-by-word available

इक्ष्वाकूणां हि सर्वेषां राजा भवति पूर्वजः । पूर्वजे नावरः पुत्रो ज्येष्ठो राज्येऽभिषिच्यते ।।2.110.35।।

Meaning

Shloka 110.36Word-by-word available

स राघवाणां कुलधर्ममात्मनः सनातनं नाद्य विहन्तुमर्हसि । प्रभूतरत्नामनुशाधि मेदिनीम् प्रभूतराष्ट्रां पितृवन्महायशः ।।2.110.36।।

Meaning