Sarga 34: Daśaratha Consoled
दशरथसमाश्वासनम्
daśarathasamāśvāsanam — word-by-word gloss for all 61 shlokas.
Jump to a shloka · 61 in this sarga
सोऽन्तःपुरमतीत्यैव स्त्रियस्ता वाक्यमब्रवीत्। आर्याह्वयति वो राजाऽगम्यतां तत्र मा चिरम् ।।2.34.11।।
Meaning
एवमुक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृपाज्ञया। प्रचक्रमुस्तद्भवनं भर्तुराज्ञाय शासनम् ।।2.34.12।।
Meaning
अर्धसप्तशतास्तास्तु प्रमदास्ताम्रलोचनाः। कौसल्यां परिवार्याथ शनैर्जग्मुर्धृतव्रताः ।।2.34.13।।
Meaning
आगतेषु च दारेषु समवेक्ष्य महीपतिः। उवाच राजा तं सूतं सुमन्त्रानय मे सुतम् ।।2.34.14।।
Meaning
स सूतो राममादाय लक्ष्मणं मैथिलीं तदा। जगामाभिमुखस्तूर्णं सकाशं जगतीपतेः ।।2.34.15।।
Meaning
स राजा पुत्रमायान्तं दृष्ट्वा दूरात्कृताञ्जलिम्। उत्पपातासनात्तूर्णमार्तः स्त्रीजनसंवृतः ।।2.34.16।।
Meaning
सोऽभिदुद्राव वेगेन रामं दृष्ट्वा विशांपतिः। तमसम्प्राप्य दुःखार्तः पपात भुवि मूर्छितः ।।2.34.17।।
Meaning
तं रामोऽभ्यपतत्क्षिप्रं लक्ष्मणश्च महारथः। विसञ्ज्ञमिव दुःखेन सशोकं नृपतिं तदा ।।2.34.18।।
Meaning
स्त्रीसहस्रनिनादश्च सञ्जज्ञे राजवेश्मनि। हा हा रामेति सहसा भूषणध्वनिमूर्छितः ।।2.34.19।।
Meaning
तं परिष्वज्य बाहुभ्यां तावुभौ रामलक्ष्मणौ। पर्यङ्के सीतया सार्धं रुदन्तः समवेशयन् ।।2.34.20।।
Meaning