Sarga 34: Daśaratha Consoled
दशरथसमाश्वासनम्
daśarathasamāśvāsanam — word-by-word gloss for all 61 shlokas.
Jump to a shloka · 61 in this sarga
अथ रामो मुहूर्तेन लब्धसञ्ज्ञं महीपतिम्। उवाच प्राञ्जलिर्भूत्वा शोकार्णवपरिप्लुतम् ।।2.34.21।।
Meaning
आपृच्छे त्वां महाराज सर्वेषामीश्वरोऽसि नः। प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम् ।।2.34.22।।
Meaning
लक्ष्मणं चानुजानीहि सीता चान्वेति मां वनम्। कारणैर्बहुभिस्तथ्यैर्वार्यमाणौ न चेच्छतः ।।2.34.23।।
Meaning
अनुजानीहि सर्वान्नः शोकमुत्सृज्य मानद। लक्ष्मणं मां च सीतां च प्रजापतिरिव प्रजाः ।।2.34.24।।
Meaning
प्रतीक्षमाणमव्यग्रमनुज्ञां जगतीपतेः। उवाच राजा सम्प्रेक्ष्य वनवासाय राघवम् ।।2.34.25।।
Meaning
अहं राघव कैकेय्या वरदानेन मोहितः। अयोध्यायास्त्वमेवाद्य भव राजा निगृह्य माम् ।।2.34.26।।
Meaning
एवमुक्तो नृपतिना रामो धर्मभृतां वरः। प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः ।।2.34.27।।
Meaning
भवान्वर्षसहस्राय पृथिव्या नृपते पतिः। अहं त्वरण्ये वत्स्यामि न मे कार्यं त्वयाऽनृतम् ।।2.34.28।।
Meaning
नव पञ्च च वर्षाणि वनवासे विहृत्य ते। पुनः पादौ ग्रहीष्यामि प्रतिज्ञान्ते नराधिप ।।2.34.29।।
Meaning
रुदन्नार्तः प्रियं पुत्रं सत्यपाशेन सम्यतः। कैकेय्या चोद्यमानस्तु मिथो राजा तमब्रवीत् ।।2.34.30।।
Meaning