Sarga 34: Daśaratha Consoled
दशरथसमाश्वासनम्
daśarathasamāśvāsanam — word-by-word gloss for all 61 shlokas.
Jump to a shloka · 61 in this sarga
श्रेयसे वृद्धये तात पुनरागमनाय च। गच्छस्वारिष्टमव्यग्रः पन्थानमकुतोभयम् ।।2.34.31।।
Meaning
न हि सत्यात्मनस्तात धर्माभिमनसस्तव। विनिवर्तयितुं बुद्धिः शक्यते रघुनन्दन ।।2.34.32।।
Meaning
अद्य त्विदानीं रजनीं पुत्र मा गच्छ सर्वथा। एकाहदर्शनेनापि साधु तावच्चराम्यहम् ।।2.34.33।।
Meaning
मातरं मां च सम्पश्यन्वसेमामद्य शर्वरीम्। तर्पितः सर्वकामैस्त्वं श्वः काले साधयिष्यसि ।।2.34.34।।
Meaning
दुष्करं क्रियते पुत्र सर्वथा राघव त्वया। मत्प्रियार्थं प्रियांस्त्यक्त्वा यद्यासि विजनं वनम् ।।2.34.35।।
Meaning
न चैतन्मे प्रियं पुत्र शपे सत्येन राघव। छन्नया चलितस्त्वस्मि स्त्रिया छन्नाग्निकल्पया ।।2.34.36।।
Meaning
वञ्चना या तु लब्धा मे तां त्वं निस्तर्तुमिच्छसि। अनया वृत्तसादिन्या कैकेय्याऽभिप्रचोदितः ।।2.34.37।।
Meaning
न चैतदाश्चर्यतमं यत्त्वं ज्येष्ठः सुतो मम। अपानृतकथं पुत्र पितरं कर्तुमिच्छसि ।।2.34.38।।
Meaning
अथ रामस्तथा श्रुत्वा पितुरार्तस्य भाषितम्। लक्ष्मणेन सह भ्रात्रा दीनो वचनमब्रवीत् ।।2.34.39।।
Meaning
प्राप्स्यामि यानद्य गुणान्को मे श्वस्तान्प्रदास्यति। उपक्रमणमेवातः सर्वकामैरहं वृणे ।।2.34.40।।
Meaning