Sarga 34: Daśaratha Consoled
दशरथसमाश्वासनम्
daśarathasamāśvāsanam — word-by-word gloss for all 61 shlokas.
Jump to a shloka · 61 in this sarga
इयं सराष्ट्रा सजना धनधान्यसमाकुला। मया विसृष्टा वसुधा भरताय प्रदीयताम् ।।2.34.41।।
Meaning
वनवासकृता बुद्धिर्न च मेऽद्य चलिष्यति। यस्तुष्टेन वरो दत्तः कैकेय्यै वरद त्वया ।।2.34.42।।
Meaning
दीयतां निखिलेनैव सत्यस्त्वं भव पार्थिव। अहं निदेशं भवतो यथोक्तमनुपालयन् ।।2.34.43।।
Meaning
चतुर्दश समा वत्स्ये वने वनचरैः सह। मा विमर्शो वसुमती भरताय प्रदीयताम् ।।2.34.44।।
Meaning
न हि मे काङ्क्षितं राज्यं सुखमात्मनि वा प्रियम्। यथानिदेशं कर्तुं वै तवैव रघुनन्दन ।।2.34.45।।
Meaning
अपगच्छतु ते दुःखं मा भूर्बाष्पपरिप्लुतः। न हि क्षुभ्यति दुर्धर्षः समुद्रः सरितां पतिः ।।2.34.46।।
Meaning
नैवाहं राज्यमिच्छामि न सुखं न च मैथिलीम्। नैव सर्वानिमान्कामान्न स्वर्गं नैव जीवितम् ।।2.34.47।।
Meaning
त्वामहं सत्यमिच्छामि नानृतं पुरुषर्षभ। प्रत्यक्षं तव सत्येन सुकृतेन च ते शपे ।।2.34.48।।
Meaning
न च शक्यं मया तात स्थातुं क्षणमपि प्रभो। स शोकं धारयस्वेमं न हि मेऽस्ति विपर्ययः ।।2.34.49।।
Meaning
अर्थितो ह्यस्मि कैकेय्या वनं गच्छेति राघव। मया चोक्तं व्रजामीति तत्सत्यमनुपालये ।।2.34.50।।
Meaning