Sarga 34: Daśaratha Consoled
दशरथसमाश्वासनम्
daśarathasamāśvāsanam — word-by-word gloss for all 61 shlokas.
Jump to a shloka · 61 in this sarga
मा चोत्कण्ठां कृथा देव वने रंस्यामहे वयम्। प्रशान्तहरिणाकीर्णे नानाशकुनिनादिते ।।2.34.51।।
Meaning
पिता हि दैवतं तात देवतानामपि स्मृतम्। तस्माद्दैवतमित्येव करिष्यामि पितुर्वचः ।।2.34.52।।
Meaning
चतुर्दशसु वर्षेषु गतेषु नरसत्तम। पुनर्द्रक्ष्यसि मां प्राप्तं सन्तापोऽयं विमुच्यताम् ।।2.34.53।।
Meaning
येन संस्तम्भनीयोऽयं सर्वो बाष्पगलो जनः। स त्वं पुरुषशार्दूल किमर्थं विक्रियां गतः ।।2.34.54।।
Meaning
पुरं च राष्ट्रं च मही च केवला मया निसृष्टा भरताय दीयताम्। अहं निदेशं भवतोऽनुपालयन्वनं गमिष्यामि चिराय सेवितुम् ।।2.34.55।।
Meaning
मया निसृष्टां भरतो महीमिमां सशैलषण्डां सपुरां सकाननाम्। शिवां सुसीमामनुशास्तु केवलं त्वया यदुक्तं नृपते तथाऽस्तु तत् ।।2.34.56।।
Meaning
न मे तथा पार्थिव धीयते मनो महत्सु कामेषु न चात्मनः प्रिये। यथा निदेशे तव शिष्टसम्मते व्यपैतु दुःखं तव मत्कृतेऽनघ ।।2.34.57।।
Meaning
तदद्य नैवानघ राज्यमव्ययं न सर्वकामान्न सुखं न मैथिलीम्। न जीवितं त्वामनृतेन योजयन्वृणीय सत्यं व्रतमस्तु ते तथा ।।2.34.58।।
Meaning
फलानि मूलानि च भक्षयन्वने गिरींश्च पश्यन्सरितः सरांसि च। वनं प्रविश्यैव विचित्रपादपं सुखी भविष्यामि तवास्तु निर्वृतिः ।।2.34.59।।
Meaning
एवं स राजा व्यसनाभिपन्नः शोकेन दुःखेन च ताम्यमानः। आलिङ्ग्य पुत्रं सुविनष्टसञ्ज्ञो मोहं गतो नैव चिचेष्ट किञ्चित् ।।2.34.60।।
Meaning