Sarga 108: Jābāli's Argument
जाबालिवाक्यम्
jābālivākyam — word-by-word gloss for all 18 shlokas.
Jump to a shloka · 18 in this sarga
बीजमात्रं पिता जन्तोः शुक्लं रुधिरमेव च । सम्युक्तमृतुमन्मात्रा पुरुषस्येह जन्म तत् ।।2.108.11।।
Meaning
गतः स नृपतिस्तत्र गन्तव्यं यत्र तेन वै । प्रवृत्तिरेषा मर्त्यानां त्वं तु मिथ्या विहन्यसे ।।2.108.12।।
Meaning
अर्थधर्मपरा ये ये तांस्तान् शोचामि नेतरान् । ते हि दुःखमिह प्राप्य विनाशं प्रेत्य भेजिरे ।।2.108.13।।
Meaning
अष्टका पितृदैवत्यमित्ययं प्रसृतो जनः । अन्नस्योपद्रवं पश्य मृतो हि किमशिष्यति ।।2.108.14।।
Meaning
यदि भुक्तमिहान्येन देहमन्यस्य गच्छति । दद्यात् प्रवसतः श्राद्धं न तत् पथ्यशनं भवेत् ।।2.108.15।।
Meaning
दानसंवनना ह्येते ग्रन्था मेधाविभिः कृताः । यजस्व देहि दीक्षस्व तपस्तप्यस्व सन्त्यज ।।2.108.16।।
Meaning
स नास्ति परमित्येव कुरु बुद्धिं महामते । प्रत्यक्षं यत्तदातिष्ठ परोक्षं पृष्ठतः कुरु ।।2.108.17।।
Meaning
स तां बुद्धिं पुरस्कृत्य सर्वलोकनिदर्शिनीम् । राज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादितः ।।2.108.18।।
Meaning