← Ayodhyā Kāṇḍa

Sarga 106: Bharata's Plea

भरतवचनम्

bharatavacanam — word-by-word gloss for all 35 shlokas.

Page 2 of 435 shlokas in this sarga (verified max-across-sources)
Shloka 106.11Word-by-word available

गुरुः क्रियावान् वृद्धश्च राजा प्रेतः पिता इति च । तातं न परिगर्हेयं दैवतं चेति संसदि ।।2.106.11।।

Meaning

Shloka 106.12Word-by-word available

को हि धर्मार्थयोर्हीनमीदृशं कर्म किल्बिषम् । स्त्रियाः प्रियचिकीर्षुः सन् कुर्याद्धर्मज्ञ धर्मवित् ।।2.106.12।।

Meaning

Shloka 106.13Word-by-word available

अन्तकाले हि भूतानि मुह्यन्तीति पुराश्रुतिः । राज्ञैवं कुर्वता लोके प्रत्यक्षा सा श्रुतिः कृता ।।2.106.13।।

Meaning

Shloka 106.14Word-by-word available

साध्वर्थमभिसन्धाय क्रोधान्मोहाच्च साहसात् । तातस्य यदतिक्रान्तं प्रत्याहरतु तद्भवान् ।।2.106.14।।

Meaning

Shloka 106.15Word-by-word available

पितुर्हि समतिक्रान्तं पुत्रो यः साधु मन्यते । तदपत्यं मतं लोके विपरीतमतोऽन्यथा ।।2.106.15।।

Meaning

Shloka 106.16Word-by-word available

तदपत्यं भवानस्तु मा भवान् दुष्कृतं पितुः । अभिपत्ता कृतं कर्म लोके धीरविगर्हितम् ।।2.106.16।।

Meaning

Shloka 106.17Word-by-word available

कैकेयीं मां च तातं च सुहृदो बान्धवांश्च नः । पौरजानपदान् सर्वांस्त्रातु सर्वमिदं भवान् ।।2.106.17।।

Meaning

Shloka 106.18Word-by-word available

क्व च आरण्यं क्व च क्षात्रं क्व जटाः क्व च पालनम् । ईदृशं व्याहतं कर्म न भवान् कर्तुमर्हति ।।2.106.18।।

Meaning

Shloka 106.19Word-by-word available

एष हि प्रथमो धर्मः क्षत्रियस्याभिषेचनम् । येन शक्यं महाप्राज्ञ प्रजानां परिपालनम् ।।2.106.19।।

Meaning

Shloka 106.20Word-by-word available

कश्च प्रत्यक्षमुत्सृज्य संशयस्थमलक्षणम् । आयतिस्थं चरेद्धर्मं क्षत्रबन्धुरनिश्चितम् ।।2.106.20।।

Meaning