Sarga 106: Bharata's Plea
भरतवचनम्
bharatavacanam — word-by-word gloss for all 35 shlokas.
Jump to a shloka · 35 in this sarga
अथ क्लेशजमेव त्वं धर्मं चरितुमिच्छसि । धर्मेण चतुरो वर्णान् पालयन् क्लेशमाप्नुहि ।।2.106.21।।
Meaning
चतुर्णामाश्रमाणां हि गार्हस्थ्यं श्रेष्ठमाश्रमम् । प्राहुर्धर्मज्ञ धर्मज्ञास्तं कथं त्यक्तुमर्हसि ।।2.106.22।।
Meaning
श्रुतेन बालः स्थानेन जन्मना भवतो ह्यहम् । स कथं पालयिष्यामि भूमिं भवति तिष्ठति ।।2.106.23।।
Meaning
हीनबुद्धिगुणो बालो हीनः स्थानेन चाप्यहम् । भवता च विनाभूतो न वर्तयितुमुत्सहे ।।2.106.24।।
Meaning
इदं निखिलमव्यग्रं पित्र्यं राज्यमकण्टकम् । अनुशाधि स्वधर्मेण धर्मज्ञ सह बान्धवैः ।।2.106.25।।
Meaning
इहैव त्वाभिषिञ्चन्तु धर्मज्ञ सह बान्धवैः । ऋत्विजः सवसिष्ठाश्च मन्त्रवन्मन्त्रकोविदाः ।।2.106.26।।
Meaning
अभिषिक्तस्त्वमस्माभिरयोध्यां पालने व्रज । विजित्य तरसा लोकान् मरुद्भिरिव वासवः ।।2.106.27।।
Meaning
ऋणानि त्रीण्यपाकुर्वन् दुर्हृदः साधु निर्दहन् । सुहृदस्तर्पयन् कामैस्त्वमेवात्रानुशाधि माम् ।।2.106.28।।
Meaning
अद्यार्य मुदिताः सन्तु सुहृदस्तेऽभिषेचने । अद्य भीताः पलायन्तां दुर्हृदस्ते दिशो दश ।।2.106.29।।
Meaning
आक्रोशं मम मातुश्च प्रमृज्य पुरुषर्षभ । अद्य तत्रभवन्तं च पितरं रक्ष किल्बिषात् ।।2.106.30।।
Meaning