← Ayodhyā Kāṇḍa
Sarga 106: Bharata's Plea
भरतवचनम्
bharatavacanam — word-by-word gloss for all 35 shlokas.
Jump to a shloka · 35 in this sarga
Page 4 of 435 shlokas in this sarga (verified max-across-sources)
Shloka 106.31Word-by-word available
शिरसा त्वाभियाचेऽहं कुरुष्व करुणां मयि । बान्धवेषु च सर्वेषु भूतेष्विव महेश्वरः ।।2.106.31।।
Meaning
Shloka 106.32Word-by-word available
अथवा पृष्ठतः कृत्वा वनमेव भवानितः । गमिष्यति गमिष्यामि भवता सार्धमप्यहम् ।।2.106.32।।
Meaning
Shloka 106.33Word-by-word available
तथापि रामो भरतेन ताम्यता प्रसाद्यमानः शिरसा महीपतिः । न चैव चक्रे गमनाय सत्त्ववान् मतिं पितुस्तद्वचने प्रतिष्ठितः ।।2.106.33।।
Meaning
Shloka 106.34Word-by-word available
तदद्भुतं स्थैर्यमवेक्ष्य राघवे समं जनो हर्षमवाप दुःखितः । न यात्ययोध्यामिति दुःखितोऽभवत् स्थिरप्रतिज्ञत्वमवेक्ष्य हर्षितः ।।2.106.34।।
Meaning
Shloka 106.35Word-by-word available
तमृत्विजो नैगमयूथवल्लभाः तथा विसञ्ज्ञाश्रुकलाश्च मातरः । तथा ब्रुवाणं भरतं प्रतुष्टुवुः प्रणम्य रामं च ययाचिरे सह ।।2.106.35।।
Meaning