Sarga 117: Praise of Sītā's Fidelity
सीतापातिव्रत्यप्रशंसा
sītāpātivratyapraśaṃsā — word-by-word gloss for all 28 shlokas.
Jump to a shloka · 28 in this sarga
दशवर्षसहस्राणि यया तप्तं महत्तपः । अनसूया व्रतैः स्नाता प्रत्यूहाश्च निवर्तिताः ।।2.117.11।।
Meaning
देवकार्यनिमित्तं च यया सन्त्वरमाणया । दशरात्रं कृता रात्रिः सेयं मातेव तेऽनघ ।।2.117.12।।
Meaning
तामिमां सर्वभूतानां नमस्कार्यां यशस्विनीम् । अभिगच्छतु वैदेही वृद्धामक्रोधनां सदा ।।2.117.13।।
Meaning
अनसूयेति या लोके कर्मभिः ख्यातिमागता । एवं ब्रुवाणं तमृषिं तथेत्युक्त्वा स राघवः ।।2.117.14।।
Meaning
सीतामुवाच धर्मज्ञामिदं वचनमुत्तमम् । राजपुत्रि श्रुतं त्वेतन्मुनेरस्य समीरितम् ।।2.117.15।।
Meaning
श्रेयोऽर्थमात्मनः शीघ्रमभिगच्छ तपस्विनीम् । सीता त्वेतद्वचः श्रुत्वा राघवस्य हितैषिणः ।।2.117.16।।
Meaning
तामत्रिपत्नीं धर्मज्ञामभिचक्राम मैथिली । शिथिलां वलितां वृद्धां जरापाण्डरमूर्धजाम् ।।2.117.17।।
Meaning
सततं वेपमानाङ्गीं प्रवाते कदली यथा । तां तु सीता महाभागामनसूयां पतिव्रताम् ।।2.117.18।।
Meaning
अभ्यवादयदव्यग्रा स्वनाम समुदाहरत् । अभिवाद्य च वैदेही तापसीं तामनिन्दिताम् ।।2.117.19।।
Meaning
बद्धाञ्जलिपुटा हृष्टा पर्यपृच्छदनामयम् । ततः सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम् ।।2.117.20।।
Meaning