Sarga 117: Praise of Sītā's Fidelity
सीतापातिव्रत्यप्रशंसा
sītāpātivratyapraśaṃsā — word-by-word gloss for all 28 shlokas.
Jump to a shloka · 28 in this sarga
सान्त्वयन्त्यब्रवीद्धृष्टा दिष्ट्या धर्ममवेक्षसे । त्यक्त्वा ज्ञातिजनं सीते मानमृद्धिं च भामिनि ।।2.117.21।।
Meaning
अवरुद्धं वने रामं दिष्ट्या त्वमनुगच्छसि । नगरस्थो वनस्थो वा पापो वा यदि वा शुभः ।।2.117.22।।
Meaning
यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः । दुःशीलः कामवृत्तो वा धनैर्वा परिवर्जितः ।।2.117.23।।
Meaning
स्त्रीणामार्यस्वभावानां परमं दैवतं पतिः । नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम् ।।2.117.24।।
Meaning
सर्वत्रयोग्यं वैदेहि तपःकृतमिवाव्ययम् । न त्वेनमवगच्छन्ति गुणदोषमसत् स्त्रियः ।।2.117.25।।
Meaning
कामवक्तव्यहृदया भर्तृनाथाश्चरन्ति याः । प्राप्नुवन्त्ययशश्चैव धर्मभ्रंशं च मैथिलि ।।2.117.26।।
Meaning
अकार्यवशमापन्नाः स्त्रियो याः खलु तद्विधाः । त्वद्विधास्तु गुणैर्युक्ताः दृष्टलोकपरावराः । स्त्रियः स्वर्गे चरिष्यन्ति यथा धर्मकृतस्तथा ।।2.117.27।।
Meaning
तदेवमेनं त्वमनुव्रता सती पतिव्रतानां समयानुवर्तिनी । भवस्व भर्तुः सहधर्मचारिणी यशश्च धर्मं च ततः समाप्स्यसि ।।2.117.28।।
Meaning