Sarga 1: Daśaratha Resolves to Crown Rāma
रामाभिषेकव्यवसायः
rāmābhiṣekavyavasāyaḥ — word-by-word gloss for all 51 shlokas.
Jump to a shloka · 51 in this sarga
कथंचिदुपकारेण कृतेनैकेन तुष्यति। न स्मरत्यपकाराणां शतमप्यात्मवत्तया ।।2.1.11।।
Meaning
शीलवृद्धैर्ज्ञानवृद्धैर्वयोवृद्धैश्च सज्जनैः। कथयन्नास्त वै नित्यमस्त्रयोग्यान्तरेष्वपि ।।2.1.12।।
Meaning
बुद्धिमान्मधुराभाषी पूर्वभाषी प्रियंवदः। वीर्यवान्न च वीर्येण महता स्वेन विस्मितः ।।2.1.13।।
Meaning
न चानृतकथो विद्वान्वृद्धानां प्रतिपूजकः। अनुरक्तः प्रजाभिश्च प्रजाश्चाप्यनुरञ्जते ।।2.1.14।।
Meaning
सानुक्रोशो जितक्रोधो ब्राह्मणप्रतिपूजकः। दीनानुकम्पी धर्मज्ञो नित्यं प्रग्रहवान् शुचिः ।।2.1.15।।
Meaning
कुलोचितमतिः क्षात्रं धर्मं स्वं बहुमन्यते। मन्यते परया कीर्त्या महत्स्वर्गफलं ततः ।।2.1.16।।
Meaning
नाश्रेयसि रतो विद्वान्न विरुद्धकथारुचिः। उत्तरोत्तरयुक्तीनां वक्ता वाचस्पतिर्यथा ।।2.1.17।।
Meaning
अरोगस्तरुणो वाग्मी वपुष्मान्देशकालवित्। लोके पुरुषसारज्ञः साधुरेको विनिर्मितः ।।2.1.18।।
Meaning
स तु श्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः। बहिश्चर इव प्राणो बभूव गुणतः प्रियः ।।2.1.19।।
Meaning
सम्यग्विद्याव्रतस्नातो यथावत्साङ्गवेदवित्। इष्वस्त्रे च पितुः श्रेष्ठो बभूव भरताग्रजः ।।2.1.20।।
Meaning