← Ayodhyā Kāṇḍa

Sarga 84: Guha's Approach

गुहागमनम्

guhāgamanam — word-by-word gloss for all 18 shlokas.

Jump to a shloka · 18 in this sarga

Page 2 of 218 shlokas in this sarga (verified max-across-sources)
Shloka 84.11Word-by-word available

तमायान्तं तु सम्प्रेक्ष्य सूतपुत्रः प्रतापवान् । भरतायाचचक्षेऽथ विनयज्ञो विनीतवत् ।।2.84.11।।

Meaning

Shloka 84.12Word-by-word available

एष ज्ञातिसहस्रेण स्थपतिः परिवारितः । कुशलो दण्डकारण्ये वृद्धो भ्रातुश्च ते सखा ।।2.84.12।।

Meaning

Shloka 84.13Word-by-word available

तस्मात्पश्यतु काकुत्स्थ त्वां निषादाधिपो गुहः । असंशयं विजानीते यत्र तौ रामलक्ष्मणौ ।।2.84.13।।

Meaning

Shloka 84.14Word-by-word available

एतत्तु वचनं श्रुत्वा सुमन्त्राद्भरतः शुभम् । उवाच वचनं शीघ्रं गुहः पश्यतु मामिति ।।2.84.14।।

Meaning

Shloka 84.15Word-by-word available

लब्ध्वाभ्यनुज्ञां संहृष्टः ज्ञातिभिः परिवारितः । आगम्य भरतं प्रह्वो गुहो वचनमब्रवीत् ।।2.84.15।।

Meaning

Shloka 84.16Word-by-word available

निष्कुटश्चैव देशोऽयं वञ्चिताश्चापि ते वयम् । निवेदयामस्ते सर्वे स्वके दासकुले वस ।।2.84.16।।

Meaning

Shloka 84.17Word-by-word available

अस्ति मूलं फलं चैव निषादैः समुपाहृतम् । आर्द्रं च मांसं शुष्कं च वन्यं चोच्चावचं महत् ।।2.84.17।।

Meaning

Shloka 84.18Word-by-word available

आशंसे स्वाशिता सेना वत्स्यतीमां विभावरीम् । अर्चितः विविधैः कामैः श्वस्ससैन्यो गमिष्यसि ।।2.84.18।।

Meaning