Sarga 31: Lakṣmaṇa Permitted to Follow
लक्ष्मणवनानुगमनाभ्यनुज्ञा
lakṣmaṇavanānugamanābhyanujñā — word-by-word gloss for all 37 shlokas.
Jump to a shloka · 37 in this sarga
मयाऽद्य सह सौमित्रे त्वयि गच्छति तद्वनम्। को भरिष्यति कौसल्यां सुमित्रां वा यशस्विनीम् ।।2.31.11।।
Meaning
अभिवर्षति कामैर्यः पर्जन्यः पृथिवीमिव। स कामपाशपर्यस्तो महातेजा महीपतिः ।।2.31.12।।
Meaning
सा हि राज्यमिदं प्राप्य नृपस्याश्वपतेः सुता। दुःखितानां सपत्नीनां न करिष्यति शोभनम् ।।2.31.13।।
Meaning
न स्मरिष्यति कौसल्यां सुमित्रां च सुदुःखिताम्। भरतो राज्यमासाद्य कैकेय्यां पर्यवस्थितः ।।2.31.14।।
Meaning
तामार्यां स्वयमेवेह राजानुग्रहणेन वा। सौमित्रे भर कौसल्यामुक्तमर्थमिमं चर ।।2.31.15।।
Meaning
एवं मम च ते भक्तिर्भविष्यति सुदर्शिता। धर्मज्ञ गुरुपूजायां धर्मश्चाप्यतुलो महान् ।।2.31.16।।
Meaning
एवं कुरुष्व सौमित्रे मत्कृते रघुनन्दन। अस्माभिर्विप्रहीणाया मातुर्नो न भवेत्सुखम् ।।2.31.17।।
Meaning
एवमुक्तस्तु रामेण लक्ष्मणः श्लक्ष्णया गिरा। प्रत्युवाच तदा रामं वाक्यज्ञो वाक्यकोविदम् ।।2.31.18।।
Meaning
तवैव तेजसा वीर भरतः पूजयिष्यति। कौसल्यां च सुमित्रां च प्रयतो नात्र संशयः ।।2.31.19।।
Meaning
यदि दुःस्थो न रक्षेत भरतो राज्यमुत्तमम्। प्राप्य दुर्मनसा वीर गर्वेण च विशेषतः ।।2.31.20।।
Meaning