Sarga 31: Lakṣmaṇa Permitted to Follow
लक्ष्मणवनानुगमनाभ्यनुज्ञा
lakṣmaṇavanānugamanābhyanujñā — word-by-word gloss for all 37 shlokas.
Jump to a shloka · 37 in this sarga
तमहं दुर्मतिं क्रूरं वधिष्यामि न संशयः। तत्पक्ष्यानपि तान्सर्वांस्त्रैलोक्यमपि किं नु सा ।।2.31.21।।
Meaning
कौसल्या बिभृयादार्या सहस्रमपि मद्विधान्। यस्याः सहस्रं ग्रामाणां सम्प्राप्तमुपजीविनम् ।।2.31.22।।
Meaning
तदात्मभरणे चैव मम मातुस्तथैव च। पर्याप्ता मद्विधानां च भरणाय यशस्विनी ।।2.31.23।।
Meaning
कुरुष्व मामनुचरं वैधर्म्यं नेह विद्यते। कृतार्थोऽहं भविष्यामि तव चार्थः प्रकल्पते ।।2.31.24।।
Meaning
धनुरादाय सशरं खनित्रपिटकाधरः। अग्रतस्ते गमिष्यामि पन्थानमनुदर्शयन् ।।2.31.25।।
Meaning
आहरिष्यामि ते नित्यं मूलानि च फलानि च। वन्यानि यानि चान्यानि स्वाहाराणि तपस्विनाम् ।।2.31.26।।
Meaning
भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यते। अहं सर्वं करिष्यामि जाग्रतः स्वपतश्च ते ।।2.31.27।।
Meaning
रामस्त्वनेन वाक्येन सुप्रीतः प्रत्युवाच तम्। व्रजापृच्छस्व सौमित्रे सर्वमेव सुहृज्जनम् ।।2.31.28।।
Meaning
ये च राज्ञो ददौ दिव्ये महात्मा वरुणः स्वयम्। जनकस्य महायज्ञे धनुषी रौद्रदर्शने ।।2.31.29।।
Meaning
अभेद्य कवचे दिव्ये तूणी चाक्षयसायकौ। आदित्यविमलौ चोभौ खड्गौ हेमपरिष्कृतौ ।।2.31.30।।
Meaning