Sarga 31: Lakṣmaṇa Permitted to Follow
लक्ष्मणवनानुगमनाभ्यनुज्ञा
lakṣmaṇavanānugamanābhyanujñā — word-by-word gloss for all 37 shlokas.
Jump to a shloka · 37 in this sarga
सत्कृत्य निहितं सर्वमेतदाचार्यसद्मनि। स त्वमायुधमादाय क्षिप्रमाव्रज लक्ष्मण ।।2.31.31।।
Meaning
स सुहृज्जनमामन्त्र्य वनवासाय निश्चितः। इक्ष्वाकुगुरुमागम्य जग्राहायुधमुत्तमम् ।।2.31.32।।
Meaning
तद्दिव्यं रघुशार्दूलः सत्कृतं माल्यभूषितम्। रामाय दर्शयामास सौमित्रिः सर्वमायुधम् ।।2.31.33।।
Meaning
तमुवाचात्मवान्रामः प्रीत्या लक्ष्मणमागतम्। काले त्वमागतः सौम्य काङ्क्षिते मम लक्ष्मण ।।2.31.34।।
Meaning
अहं प्रदातुमिच्छामि यदिदं मामकं धनम्। ब्राह्मणेभ्यस्तपस्विभ्यस्त्वया सह परन्तप ।।2.31.35।।
Meaning
वसन्तीह दृढं भक्त्या गुरुषु द्विजसत्तमाः। तेषामपि च मे भूयः सर्वेषां चोपजीविनाम् ।।2.31.36।।
Meaning
वसिष्ठपुत्रं तु सुयज्ञमार्यं त्वमानयाशु प्रवरं द्विजानाम्। अभिप्रयास्यामि वनं समस्तानभ्यर्च्य शिष्टानपरान्द्विजातीन् ।।2.31.37।।
Meaning