Sarga 14: Kaikeyī Reproached
कैकेय्युपालम्भः
kaikeyyupālambhaḥ — word-by-word gloss for all 68 shlokas.
Jump to a shloka · 68 in this sarga
एवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया। नाशकत्पाशमुन्मोक्तुं बलिरिन्द्रकृतं यथा ।।2.14.11।।
Meaning
उद्भ्रान्तहृदयश्चापि विवर्णवदनोऽभवत्। स धुर्यो वै परिस्पन्दन्युगचक्रान्तरं यथा ।।2.14.12।।
Meaning
विह्वलाभ्यां च नेत्राभ्यामपश्यन्निव भूपतिः। कृच्छ्राद्धैर्येण संस्तभ्य कैकेयीमिदमब्रवीत् ।।2.14.13।।
Meaning
यस्ते मन्त्रकृतः पाणिरग्नौ पापे मया धृतः। तं त्यजामि स्वजं चैव तव पुत्रं त्वया सह ।।2.14.14।।
Meaning
प्रयाता रजनी देवि सूर्यस्योदयनं प्रति। अभिषेकं गुरुजनस्त्वरयिष्यति मां ध्रुवम् ।।2.14.15।।
Meaning
रामाभिषेकसम्भारैस्तदर्थमुपकल्पितैः। रामः कारयितव्यो मे मृतस्य सलिलक्रियाम् ।।2.14.16।।
Meaning
त्वया सपुत्रया नैव कर्तव्या सलिलक्रिया। व्याहन्तास्यशुभाचारे यदि रामाभिषेचनम् ।।2.14.17।।
Meaning
न च शक्तोऽस्म्यहं द्रष्टुं दृष्ट्वा पूर्वं तथा सुखम्। हतहर्षं निरानन्दं पुनर्जनमवाङ्मुखम् ।।2.14.18।।
Meaning
तां तथा ब्रुवतस्तस्य भूमिपस्य महात्मनः। प्रभाता शर्वरी पुण्या चन्द्रनक्षत्रशालिनी ।।2.14.19।।
Meaning
ततः पापसमाचारा कैकेयी पार्थिवं पुनः। उवाच परुषं वाक्यं वाक्यज्ञा रोषमूर्छिता ।।2.14.20।।
Meaning