Sarga 14: Kaikeyī Reproached
कैकेय्युपालम्भः
kaikeyyupālambhaḥ — word-by-word gloss for all 68 shlokas.
Jump to a shloka · 68 in this sarga
किमिदं भाषसे राजन्वाक्यं गररुजोपमम्। आनाययितुमक्लिष्टं पुत्रं राममिहार्हसि ।।2.14.21।।
Meaning
स्थाप्य राज्ये मम सुतं कृत्वा रामं वनेचरम्। निःसपत्नां च मां कृत्वा कृतकृत्यो भविष्यसि ।।2.14.22।।
Meaning
स नुन्न इव तीक्ष्णेन प्रतोदेन हयोत्तमः। राजा प्रचोदितोऽभीक्ष्णं कैकेयीमिदमब्रवीत् ।।2.14.23।।
Meaning
धर्मबन्धेन बद्धोऽस्मि नष्टा च मम चेतना। ज्येष्ठं पुत्रं प्रियं रामं द्रष्टुमिच्छामि धार्मिकम् ।।2.14.24।।
Meaning
ततः प्रभातां रजनीमुदिते च दिवाकरे। पुण्ये नक्षत्रयोगे च मुहूर्ते च समाहिते ।।2.14.25।।
Meaning
वसिष्ठो गुणसम्पन्नः शिष्यैः परिवृतस्तदा। उपसङ्गृह्य सम्भारान्प्रविवेश पुरोत्तमम् ।।2.14.26।।
Meaning
सिक्तसम्मार्जितपथां पताकोत्तमभूषिताम्। विचित्रकुसुमाकीर्णां नानास्रग्भिर्विराजिताम् ।।2.14.27।।
Meaning
संह्ष्टमनुजोपेतां समृद्धविपणापणाम्। महोत्सवसमाकीर्णां राघवार्थे समुत्सुकाम् ।।2.14.28।।
Meaning
चन्दनागरुधूपैश्च सर्वतः प्रतिधूपिताम्। तां पुरीं समतिक्रम्य पुरन्दरपुरोपमाम् ।।2.14.29।।
Meaning
ददर्शान्तःपुरं श्रेष्ठं नानाद्विजगणायुतम्। पौरजानपदाकीर्णं ब्राह्मणैरुपशोभितम् ।।2.14.30।।
Meaning