← Ayodhyā Kāṇḍa

Sarga 14: Kaikeyī Reproached

कैकेय्युपालम्भः

kaikeyyupālambhaḥ — word-by-word gloss for all 68 shlokas.

Page 4 of 768 shlokas in this sarga (verified max-across-sources)
Shloka 14.31Word-by-word available

यज्ञविद्भिः सुसम्पूर्णं सदस्यैः परमद्विजैः। तदन्तःपुरमासाद्य व्यतिचक्राम तं जनम् ।।2.14.31।।

Meaning

Shloka 14.32Word-by-word available

वसिष्ठः परमप्रीतः परमर्षिर्विवेश च। सत्वपश्यद्विनिष्क्रान्तं सुमन्त्रं नाम सारथिम् ।।2.14.32।।

Meaning

Shloka 14.33Word-by-word available

द्वारे तु राजसिंहस्य सचिवं प्रियदर्शनम्। तमुवाच महातेजाः सूतपुत्रं विशारदम् ।।2.14.33।।

Meaning

Shloka 14.34Word-by-word available

वसिष्ठः क्षिप्रमाचक्ष्व नृपतेर्मामिहागतम्। इमे गङ्गोदकघटाः सागरेभ्यश्च काञ्चनाः ।।2.14.34।।

Meaning

Shloka 14.35Word-by-word available

औदुम्बरं भद्रपीठमभिषेकार्थमाहृतम्। सर्वबीजानि गन्धाश्च रत्नानि विविधानि च ।।2.14.35।।

Meaning

Shloka 14.36Word-by-word available

क्षौद्रं दधि घृतं लाजाः दर्भाः सुमनसः पयः। अष्टौ च कन्या रुचिराः मत्तश्च वरवारणः ।।2.14.36।।

Meaning

Shloka 14.37Word-by-word available

चतुरश्वो रथः श्रीमान्निस्त्रिंशो धनुरुत्तमम्। वाहनं नरसम्युक्तं छत्रं च शशिसन्निभम् ।।2.14.37।।

Meaning

Shloka 14.38Word-by-word available

श्वेते च वालव्यजने भृङ्गारश्च हिरण्मयः। हेमदामपिनद्धश्च ककुद्मान्पाण्डरो वृषः ।।2.14.38।।

Meaning

Shloka 14.39Word-by-word available

केसरी च चतुर्दंष्ट्रो हरिश्रेष्ठो महाबलः। सिंहासनं व्याघ्रतनुः समिद्धश्च हुताशनः ।।2.14.39।।

Meaning

Shloka 14.40Word-by-word available

सर्ववादित्रसङ्घाश्च वेश्याश्चालङ्कृताः स्त्रियः। आचार्या ब्राह्मणा गावः पुण्याश्च मृगपक्षिणः ।।2.14.40।।

Meaning