← Ayodhyā Kāṇḍa

Sarga 14: Kaikeyī Reproached

कैकेय्युपालम्भः

kaikeyyupālambhaḥ — word-by-word gloss for all 68 shlokas.

Page 5 of 768 shlokas in this sarga (verified max-across-sources)
Shloka 14.41Word-by-word available

पौरजानपदश्रेष्ठाः नैगमाश्च गणैः सह। एते चान्ये च बहवः प्रीयमाणाः प्रियंवदाः ।।2.14.41।।

Meaning

Shloka 14.42Word-by-word available

अभिषेकाय रामस्य सह तिष्ठन्ति पार्थिवैः। त्वरयस्व महाराजं यथा समुदितेऽहनि ।।2.14.42।।

Meaning

Shloka 14.43Word-by-word available

पुण्ये नक्षत्रयोगे च रामो राज्यमवाप्नुयात्। इति तस्य वचः श्रुत्वा सूतपुत्रो महात्मनः ।।2.14.43।।

Meaning

Shloka 14.44Word-by-word available

स्तुवन्नृपतिशार्दूलं प्रविवेश निवेशनम्। तं तु पूर्वोदितं वृद्धं द्वारस्था राजसम्मतम् ।।2.14.44।।

Meaning

Shloka 14.45Word-by-word available

न शेकुरभिसंरोद्धुं राज्ञः प्रयचिकीर्षवः। स समीपस्थितो राज्ञस्तामवस्थामजज्ञिवान् ।।2.14.45।।

Meaning

Shloka 14.46Word-by-word available

वाग्भिः परमतुष्टाभिरभिष्टोतुं प्रचक्रमे। ततः सूतो यथाकालं पार्थिवस्य निवेशने ।।2.14.46।।

Meaning

Shloka 14.47Word-by-word available

सुमन्त्रः प्राञ्जलिर्भूत्वा तुष्टाव जगतीपतिम्। यथा नन्दति तेजस्वी सागरो भास्करोदये ।।2.14.47।।

Meaning

Shloka 14.48Word-by-word available

प्रीतः प्रीतेन मनसा तथानन्दघनः स्वतः। इन्द्रमस्यां तु वेलायामभितुष्टाव मातलिः ।।2.14.48।।

Meaning

Shloka 14.49Word-by-word available

सोऽजयद्दानवान्सर्वांस्तथा त्वां बोधयाम्यहम्। वेदाः सहाङ्गविद्याश्च यथाह्यात्मभुवं विभुम् ।।2.14.49।।

Meaning

Shloka 14.50Word-by-word available

ब्रह्माणं बोधयन्त्यद्य तथा त्वां बोधयाम्यहम्। आदित्यः सह चन्द्रेण यथा भूतधरां शुभाम् ।।2.14.50।।

Meaning