Sarga 14: Kaikeyī Reproached
कैकेय्युपालम्भः
kaikeyyupālambhaḥ — word-by-word gloss for all 68 shlokas.
Jump to a shloka · 68 in this sarga
बोधयत्यद्य पृथिवीं तथा त्वां बोधयाम्यहम्। उत्तिष्ठाशु महाराज कृतकौतुकमङ्गलः ।।2.14.51।।
Meaning
विराजमानो वपुषा मेरोरिव दिवाकरः। सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि ।।2.14.52।।
Meaning
वरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते। गता भगवती रात्रिः कृतं कृत्यमिदं तव ।।2.14.53।।
Meaning
बुद्ध्यस्व नृपशार्दूल कुरुकार्यमनन्तरम्। उपतिष्ठति रामस्य समग्रमभिषेचनम् ।।2.14.54।।
Meaning
पौरजानपदैश्चापि नैगमैश्च कृताञ्जलिः। अयं वसिष्ठो भगवान्ब्राह्मणैः सह तिष्ठति ।।2.14.55।।
Meaning
क्षिप्रमाज्ञाप्यतां राजन्राघवस्याभिषेचनम्। यथा ह्यपालाः पशवो यथा सेना ह्यानायका ।।2.14.56।।
Meaning
यथा चन्द्रं विना रात्रिर्यथा गावो विना वृषम्। एवं हि भविता राष्ट्रं यत्र राजा न दृश्यते ।।2.14.57।।
Meaning
इति तस्य वचः श्रुत्वा सान्त्वपूर्वमिवार्थवत्। अभ्यकीर्यत शोकेन भूय एव महीपतिः ।।2.14.58।।
Meaning
ततः स राजा तं सूतं सन्नहर्षः सुतं प्रति। शोकरक्तेक्षणः श्रीमानुद्वीक्ष्योवाच धार्मिकः ।।2.14.59।।
Meaning
वाक्यैस्तु खलु मर्माणि मम भूयो निकृन्तसि। सुमन्त्रः करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम् ।।2.14.60।।
Meaning