Sarga 14: Kaikeyī Reproached
कैकेय्युपालम्भः
kaikeyyupālambhaḥ — word-by-word gloss for all 68 shlokas.
Jump to a shloka · 68 in this sarga
प्रगृहीताञ्जलिः किञ्चित् तस्माद्देशादपाक्रमत्। यदा वक्तुं स्वयं दैन्यात् न शशाक महीपतिः ।।2.14.61।।
Meaning
तदा सुमन्त्रं मन्त्रज्ञा कैकेयी प्रत्युवाच ह। सुमन्त्र राजा रजनीं रामहर्षसमुत्सुकः ।।2.14.62।।
Meaning
प्रजागरपरिश्रान्तो निद्राया वशमेयिवान्। तद्गच्छ त्वरितं सूत राजपुत्रं यशस्विनम् ।।2.14.63।।
Meaning
राममानय भद्रं ते नात्र कार्या विचारणा। स मन्यमानः कल्याणं हृदयेन ननन्द च ।।2.14.64।।
Meaning
निर्जगाम च सम्प्रीत्या त्वरितो राजशासनात्। सुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया ।।2.14.65।।
Meaning
व्यक्तं रामोऽभिषेकार्थमिहायास्यति धर्मवित्। इति सूतो मतिं कृत्वा हर्षेण महतावृतः ।।2.14.66।।
Meaning
निर्जगाम महाबाहू राघवस्य दिदृक्षया। सागरह्रदसङ्काशात्सुमन्त्रोन्तःपुराच्छुभात्। निष्क्रम्य जनसम्बाधं ददर्श द्वारमग्रतः ।।2.14.67।।
Meaning
ततः पुरस्तात्सहसा विनिर्गतो महीभृतो द्वारगतान्विलोकयन्। ददर्श पौरान्विविधान्महाधना- नुपस्थितान्द्वारमुपेत्य विष्ठितान् ।।2.14.68।।
Meaning