Sarga 112: The Sandals Given
पादुकाप्रदानम्
pādukāpradānam — word-by-word gloss for all 31 shlokas.
Jump to a shloka · 31 in this sarga
रक्षितुं सुमहद्राज्यमहमेकस्तु नोत्सहे । पौरजानपदांश्चापि रक्तान् रञ्जयितुं तथा ।।2.112.11।।
Meaning
ज्ञातयश्च हि योधाश्च मित्राणि सुहृदश्च नः । त्वामेव प्रतिकाङ्क्षन्ते पर्जन्यमिव कर्षकाः ।।2.112.12।।
Meaning
इदं राज्यं महाप्राज्ञ स्थापय प्रतिपद्य हि । शक्तिमानसि काकुत्स्थ लोकस्य परिपालने ।।2.112.13।।
Meaning
इत्युक्त्वा न्यपतद्भ्रातुः पादयोर्भरतस्तदा । भृशं सम्प्रार्थयामास राममेव प्रियंवदः ।।2.112.14।।
Meaning
तमङ्के भ्रातरं कृत्वा रामो वचनमब्रवीत् । श्यामं नलिनपत्राक्षं मत्तहंसस्वरं स्वयम् ।।2.112.15।।
Meaning
आगता त्वामियं बुद्धिः स्वजा वैनयिकी च या । भृशमुत्सहसे तात रक्षितुं पृथिवीमपि ।।2.112.16।।
Meaning
अमात्यैश्च सुहृद्भिश्च बुद्धिमद्भिश्च मन्त्रिभिः । सर्वकार्याणि सम्मन्त्र्य सुमहान्त्यपि कारय ।।2.112.17।।
Meaning
लक्ष्मीश्चन्द्रादपेयाद्वा हिमवान् वा हिमं त्यजेत् । अतीयात् सागरो वेलां न प्रतिज्ञामहं पितुः ।।2.112.18।।
Meaning
कामाद्वा तात लोभाद्वा मात्रा तुभ्यमिदं कृतम् । न तन्मनसि कर्तव्यं वर्तितव्यं च मातृवत् ।।2.112.19।।
Meaning
एवं ब्रुवाणं भरतः कौसल्यासुतमब्रवीत् । तेजसादित्यसङ्काशं प्रतिपच्चन्द्रदर्शनम् ।।2.112.20।।
Meaning